2023-08-03 10:21:46 by Bharadwajraki
This page has been fully proofread twice.
धर्मशास्त्रेषु, परिचर्यारतोऽपि निसर्गत एव ब्राह्मणानां, आचतुराननादाचकीटपतङ्गेभ्यः तुल्यवदेव प्रभवन्त्या भगवत्या भवितव्यताया विलासेन त्रिभुवनाधिपत्यमदान्धीकृतलोचनो, धीमानपि सहस्रलोचनः न तं प्रत्यवरुरोह, न तरामुपचचार गिरा, न तमां च प्रणनाम । अपि च न केवलं तमवजज्ञे, अपि तु पुनरसम्भावितेनापि तेन वितीर्यमाणामादाय सावज्ञमेकेन पाणिना
मालिकां, पश्यत एव महर्षेः, अनुपनीय मकुटतटीं , अनाघ्राय
[commentary]
विदन्नपि, बृहस्पतेश्शिष्योऽपि । "महदनुशिष्टो महान् भवेत्" इति न्यायादिति भावः । धर्मशास्त्रेषु, शीलितं परिशीलितं, मर्म रहस्यं, येन स तथाभूतोऽपि । "ब्रह्मतेजोबलं बलम् । तिरस्काराद्ब्राह्मणानामीश्वरोऽपि पतत्यधः" इति ज्ञात्वापीति भावः । निसर्गतः स्वत एव, ब्राह्मणानां परिचर्यापरोऽपि । "परिचर्या तु शुश्रूषा" इत्यमरः । "ये केचास्मच्छ्रेयांसो ब्राह्मणाः, तेषां त्वयासने न[^१] प्रश्वसितव्यम्" इत्यादिश्रुतेः । "ऊर्ध्वं प्राणा ह्युत्क्रमन्ति यूनस्स्थविर आगते ।प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥" इत्यादिस्मृतीश्च बुद्ध्वापीति भावः । आचतुराननाद् ब्रह्माणमारभ्येत्यर्थः । आ च कीटपतङ्गेभ्यः, कीटाः कृमिविशेषाः, पतङ्गाः पक्षवन्तः, तानभिव्याप्येत्यर्थः । तुल्यवत् तुल्येष्विव । "तत्र तस्येव" (पा. सू. ५.१.११६) इति सप्तम्यन्ताद् वतिप्रत्ययः । एकरीत्या, प्रभवन्त्याः प्रसरन्त्याः, भगवत्याः माहात्म्यवत्याः । "भगः श्रीकाममाहात्म्ये" इत्यमरः । भवितव्यताया नियतेर्विलासेनैव, त्रिभुवनस्य आधिपत्येन, यो मदः, तेन अन्धीकृतं दर्शनाननुगुणीकृतं, लोचनं यस्य स तथाभूतः । धीमानपि प्रशस्तबुद्धिरपि, सहस्रलोचनः अनेकाक्षः, इन्द्रः । तं प्रति मुनिमुद्दिश्य, नावरुरोह, यानादिति शेषः । तं मुनिं गिरा, नोपचचार उपचारं न कृतवान् । तं न प्रणनाम, प्रणतिं नाकरोत् । केवलं तमवजज्ञे । "दुर्दशायां शिरःस्थायामुचितं कस्य भासते" इति भावः । मुनिमिव मुनिकृतं महान्तमनुग्रहमपि दुर्दशावशादेव न बहु मेन इत्याह । अपि च न केवलं तमवजज्ञे । अपित्विति ॥ असंभावितेनापि असत्कृतेनापि, तेन मुनिना, वितीर्यमाणां दत्तां, मालिकां पूर्वोक्तामेकेन पाणिना, सावज्ञं यथा तथा सावमानमित्यर्थः । "अवज्ञाव-
[^१] तैत्तिरीयोपनिषदि अन्तिमानुवाके इदमनुशासनं शिष्यायाचार्यस्य । तेषां श्रेयसाम् आसने, उपवेशनकाले सन्निधौ, न प्रश्वसितव्यमपि इत्यर्थः ॥