2023-06-05 16:39:43 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सव्याख्याने
धर्मशास्त्रेषु, परिचर्यारतोऽपि निसर्गत एव ब्राह्मणानां, आचतु-
राननादाचकीटपतङ्गेभ्यः तुल्यवदेव प्रभवन्त्या भगवत्या भवितव्य-
ताया विलासेन त्रिभुवनाधिपत्यमदान्धीकृतलोचनो, धीमानपि
सहस्रलोचनः न तं प्रत्यवरुरोह, न तरामुपचचार गिरा, न तम
च प्रणनाम । अपि च न केवलं तमवजज्ञे, अपि तु पुनर-
सम्भावितेनापि तेन वितीर्यमाणामादाय सावज्ञमेकेन पाणिना
मालिकां, पश्यत एव महर्षेः, अनुपनीय मकुटतीं, अनाघाय
विदन्नपि, बृहस्पतेश्शिष्योऽपि । "महदनुशिष्टो महान् भवेत्" इति न्यायादिति
भावः । धर्मशास्त्रेषु, शीलितं परिशीलितं, मर्म रहस्यं, येन स तथाभूतोऽपि । "ब्रह्म-
तेजोबलं बलम् । तिरस्काराद्ब्राह्मणानामीश्वरोऽपि पतत्यधः" इति ज्ञात्वापीति भावः ।
निसर्गत: स्वत एव, ब्राह्मणानां परिचर्यापरोऽपि । "परिचर्या तु शुश्रूषा" इत्यमरः ।
"ये केचास्मच्छ्रेयांसो ब्राह्मणाः, तेषां त्वयासने न' प्रश्वसितव्यम्" इत्यादिश्रुतेः ।
"ऊर्ध्वं प्राणा ह्युत्क्रमन्ति यूनस्स्थविर आगते । प्रत्युत्थानाभिवादाभ्यां पुनस्तान्
प्रतिपद्यते ॥" इत्यादिस्मृतीश्च बुद्ध्वापीति भावः । आचतुराननाद् ब्रह्माण-
मारभ्येत्यर्थ: । आ च कीटपतङ्गेभ्यः, कीटा: कृमिविशेषाः, पतङ्गाः पक्षवन्तः,
तान भिव्याप्येत्यर्थः । तुल्यवत् तुल्येष्विव । " तत्र तस्येव" (पा. सू. 5-1-116)
इति सप्तम्यन्ताद् वतिप्रत्ययः । एकरीत्या, प्रभवन्त्याः प्रसरन्त्याः, भगवत्याः माहा-
त्म्यवत्याः । "भग: श्रीकाममाहात्म्ये" इत्यमरः । भवितव्यताया नियतेर्विलासेनैव,
त्रिभुवनस्य आधिपत्येन, यो मदः, तेन अन्धीकृतं दर्शनाननुगुणीकृतं, लोचनं
यस्य स तथाभूतः । धीमानपि प्रशस्तबुद्धिरपि, सहस्रलोचन: अनेकाक्षः, इन्द्रः ।
तं प्रति मुनिमुद्दिश्य, नावरुरोह, यानादिति शेषः । तं मुनि गिरा, नोपचचार उप-
चारं न कृतवान् । तं न प्रणनाम, प्रणतिं नाकरोत् । केवलं तमवजज्ञे । "दुर्दशायां
शिर: स्थायामुचितं कस्य भासते" इति भावः । मुनिमिव मुनिकृतं महान्तमनु-
ग्रहमपि दुर्दशावशादेव न बहु मेन इत्याह । अपि च न केवलं तमवजज्ञे । अपि
त्विति ॥ असंभावितेनापि असत्कृतेनापि, तेन मुनिना, वितीर्यमाणां दत्तां,
मालिकां पूर्वोक्तामेकेन पाणिना, सावज्ञं यथा तथा सावमानमित्यर्थः । "अवज्ञाव-
1. तैत्तिरीयोपनिषदि अन्तिमानुवा के इदमनुशासनं शिष्यायाचार्यस्य । तेषां
श्रेयसाम् आसने, उपवेशनकाले सन्निधौ, न प्रश्वसितव्यमपि इत्यर्थः ॥