2023-08-03 10:16:46 by Bharadwajraki
This page has been fully proofread twice.
प्रणिपत्य समर्पितां कामपि कनकारविन्दमयीमम्लानमालिकामानयन्तं, आपतन्तमग्रत एव निरर्गळमभिमन्त्र्य मुक्तमिव पाशुपतं शरं, अनतिलङ्घनीयतेजसं, दुर्वाससं नाम तापसमद्राक्षीत् । जानन्नपि तमनतिक्रमणीयतेजसं दुर्वाससं, जानन्नपि जगदेव निखिलमपलपितुमन्यथयितुं च नैपुण्यं ब्राह्मणस्य, जानन्नपि मुनिकुलन्यक्कारपरिणतां गति नहुषस्य, शिष्योऽपि बृहस्पतेः, शीलितमर्मापि
[commentary]
तपोविशेषः, तेन परितोषिताया गौर्याः, प्रसादेन समासादितां प्राप्ताम् । कयापि विद्याधरकन्यकया चित्रवसुपुत्र्या, प्रार्थनामात्रादेव याचनामात्रादेव, शापाद्भीतया, प्रणिपत्य नमस्कृत्य, समर्पितां दत्तां, कनकारविन्दमयीं सुवर्णपद्मप्रचुराम्[^१], अत एव अम्लानकुसुममालिकामानयन्तम् । कर इति शेषः । अग्रत एव, अभिमन्त्र्य मन्त्रमुच्चार्य, मुक्तं प्रयुक्तं, पाशुपतं पशुपतिदेवताकं, अस्त्रमिव, निरर्गळं निर्निरोघंधं यथा तथा। "अबाधं तु निरर्गळम्" इत्यमरः । आपतन्तमागच्छन्तं, अनतिक्रमणीयमनुल्लङ्घनीयं तेजस्सामर्थ्यं यस्य स तथाभूतं शरमिव स्थितं, दुर्वाससं, नाम प्रसिद्धतापसम् अद्राक्षीत् दृष्टवान् । दृशे[^२]र्लुङ् । बुद्धिमानपि देवेन्द्रो भवितव्यताया अपरिहार्यत्वात् तदानीं प्रममादेत्याशयेनाह ॥ जानन्निति ॥ तं दुर्वाससं अनतिक्रमणीयं अनभिभाव्यं, तेजस्सामर्थ्यं यस्य स तथाभूतं, जानन्नपि विदन्नपि । निखिलं जगदेव, सर्वं दृश्यप्रपञ्चमेव, अपलपितुं नास्तीति वक्तुं, अन्यथयितुं च सन्तमपि समुद्रादिकं असन्तं कर्तुं च, ब्राह्मणस्य । जात्याख्याया[^३]मेकवचनम् । नैपुण्यं सामर्थ्यं, अस्तीति जानन्नपि । मुनिजनानां न्यक्कारेण तिरस्कारेण परिणतां पर्यवसन्नाम् । "स सर्प सर्प सर्पेति त्रिरुक्त्वा सर्पतां गतः । नहुषो ब्रह्मणां शापादिति पौराणिका विदुः ॥" इत्यादिना नहुषस्य गतिं दशाम् । "गतिर्मार्गे दशायां च" इति विश्वः ।
[^१] "तत्प्रकृतवचने मयट्" (पा. सू. ५.४.२१) -- इति प्राचुर्ये अधिकरणे मयट् इति भावः ॥
[^२] "दृशिर् प्रेक्षणे" इत्यस्मात् भौवादिकात् धातोः, इरित्वादङ्विकल्पः - अदर्शत्, अङभावे "न दृशः" (पा. सू. ३.१.४७) इति क्सस्य निषेधात् सिचि वृद्धौ "अद्राक्षीत्" -- इति रूपमिति भावः॥
[^३] "जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् (पा. सू. १.२.५८) इति सूत्रेणेति भावः । भाष्कारानुरोधेन प्रत्याख्यातत्वात् सूत्रस्य, जातेरेकत्वात् तद्विवक्षायामेकवचनम्, व्यक्तिविवक्षायां तद्बहुत्वात् बहुवचनमिति वेदितव्यम् ॥
[commentary]
तपोविशेषः, तेन परितोषिताया गौर्याः, प्रसादेन समासादितां प्राप्ताम् । कयापि विद्याधरकन्यकया चित्रवसुपुत्र्या, प्रार्थनामात्रादेव याचनामात्रादेव, शापाद्भीतया, प्रणिपत्य नमस्कृत्य, समर्पितां दत्तां, कनकारविन्दमयीं सुवर्णपद्मप्रचुराम्[^१], अत एव अम्लानकुसुममालिकामानयन्तम् । कर इति शेषः । अग्रत एव, अभिमन्त्र्य मन्त्रमुच्चार्य, मुक्तं प्रयुक्तं, पाशुपतं पशुपतिदेवताकं, अस्त्रमिव, निरर्गळं निर्निरो