This page has been fully proofread once and needs a second look.

प्रथमाश्वासः
 
प्रणिपत्य समर्पितां कामपि
 
कनकारविन्दमयीमग्म्लानमालिकामानयन्तं,
 
आपतन्तग्रत एव निरर्गळ मभिमन्त्र्य मुक्तमिव पाशुपतं शरं,
अनतिलङ्घनीयतेजसं, दुर्वाससं नाम तापसमद्राक्षीत् । जान-
न्नपि तमनतिक्रमणीयतेजसं दुर्वाससं, जानन्नपि जगदेव निस्बिखि-
मपलपितुमन्यथयितुं च नैपुण्यं ब्राह्मणस्य, जानन्नपि मुनिकुलन्य-
क्कारपरिणतां गति नहुषस्य, शिष्योऽपि बृहस्पतेः, शीलितमर्मापि
 
३७
 

 
[commentary]
 
तपोविशेष:षः, तेन परितोषिताया गौर्याः, प्रसादेन समासादितां प्राप्ताम् । कयापि
विद्याधरकन्यकया चित्रवसुपुत्र्या, प्रार्थनामात्रादेव याचनामात्रादेव, शापाद्धीतया,
भीतया, प्रणिपत्य नमस्कृत्य, समर्पितां दत्तां, कनकार विन्दमयीं सुवर्णपद्मप्रचुराम्'[^१], अत एव
अम्लानकुसुममालिकामानयन्तम् । कर इति शेषः । अग्रत एव, अभिमन्त्र्य मन्त्र-
मुच्चार्य, मुक्तं प्रयुक्तं, पाशुपतं पशुपतिदेवताकं, अस्त्रमिव, निरर्गळं निर्निरोघं यथा
तथा। "अबाधं तु निरर्गळम्" इत्यमरः । आपतन्तमागच्छन्तं, अनतिक्रमणीय मनु-
ल्लङ्घनीयं तेजस्सामर्थ्यं यस्य स तथाभूतं शरमिव स्थितं, दुर्वाससं, नाम प्रसिद्धतापसम्
अद्राक्षीत् दृष्टवान् । दृशे[^२]र्लुङ् । बुद्धिमानपि देवेन्द्रो भवितव्यताया अपरिहार्य -
त्वात् तदानीं प्रममादेत्याशयेनाह ॥ जानन्निति ॥ तं दुर्वाससं अनतिक्रमणीयं
अनभिभाव्यं, तेजस्सामर्थ्यं यस्य स तथाभूतं, जानन्नपि विदन्नपि । निखिलं
जगदेव, सर्वं दृश्यप्रपञ्चमेव, अपलपितुं नास्तीति वक्तुं, अन्यथयितुं च सन्तमपि
समुद्रादिकं असन्तं कर्तुं च, ब्राह्मणस्य । जात्याख्याया [^३]मेकवचनम् । नैपुण्यं सामर्थ्य,
यं, अस्तीति जानन्नपि । मुनिजनानां न्यक्कारेण तिरस्कारेण परिणतां पर्यवसन्नाम् ।
"
"स सर्प सर्प सर्पेति त्रिरुक्त्वा सर्पतां गतः । नहुषो ब्रह्मणां शापादिति पौराणिका
विदुः ॥" इत्यादिना नहुषस्य गतिं दशाम् । "गतिर्मार्गे दशायां च " इति विश्वः ।
 
अङभावे " न दृश:
 
1. "

 
[^१] "
तत्प्रकृतवचने मयट्" (पा. सू. 5५.४.२१) -421) —- इति प्राचुर्ये अधिकरणे मयट्
इति भावः ॥
 
2.
 
क्षीत् " - इति रूपमिति भावः ॥
 
-
 
""
 
'

 
[^२] "
दृशिर् प्रेक्षणे" इत्यस्मात् भौवादिकात् धातोः, इरित्वादङ्विकल्प:पः - अदर्शत्,
अङभावे "न दृशः" (पा. सू. 3-1-47३.१.४७) इति क्सस्य निषेधात् सिचि वृद्धौ " अद्राक्षीत्" -
""
 
3. "
- इति रूपमिति भावः॥
 
[^३] "
जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् (पा. सू. 1-2-58१.२.५८) इति
सूत्रेणेति भावः । भाष्कारानुरोधेन प्रत्याख्यातत्वात् सूत्रस्य, जाते रेकत्वात् तद्विवक्षाया-
मेकवचनम्, व्यक्तिविवक्षायां तद्बहुत्वात् बहुवचन मिति वेदितव्यम् ॥