This page has been fully proofread twice.

अवरुन्धन्तमध्वनि मिळन्ति सिद्धवधूकुलानि, त्रासयन्तमिव (कातरान्a तर्जयन्तमिव) [^१]शुनासीरभटानपि, bगर्जन्तमिव, गायन्तमिव, नृत्यन्तमिव, स्खलन्तमिव, हसन्तमिव, हृदयारविन्दकुहरविहरदुन्मत्तशेखरभावनानैरन्तर्यादुन्मत्तमिव, (स्वयमप्य[^२]वाप्तमस्तकामतया किञ्चिदप्यनादृतलोकतन्त्रानुविधानं,) त्रिलोचनावतारमप्यत्रिलोचनावतारसोदरं, अनसूयागर्भसम्भवमप्यत्यन्तकोपनं, अतिकठिनतपोविशेषपरितोषितगौरीप्रसादसमासादितामपि कयापि विद्याधरकन्यया प्रार्थनामात्रादेव शापभीतया
 
[Ccommentary]
 
स तथोक्तम् । अनुपदं प्रतिपदम् । वीप्साया[^३]मव्ययीभावः । आस्फोटयन्तं अङ्गुळिस्फोटं कुर्वन्तम् । अध्वनि मिळन्ति सङ्घीभवन्ति, सिद्धवधूकुलानि अवरुन्धन्तम् । नासीरभटान् । "सेनामुखं तु नासीरं" इत्यमरः । त्रासयन्तम् त्रासं कुर्वन्तं । "ब्रह्मनिष्ठश्चरेन्नित्यं बालोन्मत्तपिशाचवत्" इति शास्त्रादिति भावः । नदन्तमिव गर्जन्तमिव गायन्तमिव नृत्यन्तमिव स्खलन्तमिव हसन्तमिव, हृदयारविन्दकुहरे हृत्कमलाकाशे, विहरतः, उन्मत्तनामकं कुसुमं शेखरं यस्य स तथाभूतस्य, अन्यत्र भ्रान्तशिरोमणेरित्यर्थः । "श्वेतार्कं श्वेतदूर्वा च बिल्वमुन्मत्तकं तथा । शिवप्रियाणि चैतानि द्रोणनीलोत्पले तथा ॥" इति शिवसहस्रनामभाष्योक्तेः । तस्य भावना सोऽहमित्यनुसन्धानं, तस्या नैरन्तर्यात्, उन्मत्तमिव । त्रिलोचनादवतारो जन्म यस्य स तथाभूतोऽपि, अत्रिलोचनावतारसोदरं, त्रिलोचनावतारस्य सोदरो यस्तद्भिन्न इत्युक्तेर्विरोधः । आभासस्तु, अत्रिमुनेः लोचनादवतारो यस्य स तथाभूतः, चन्द्रः, तस्य सोदरम् । अविद्यमाना असूया यस्यास्तस्याः गर्भसम्भवोऽपि, अत्यन्तकोपन
इत्युक्तेर्विरोधः । कुत इत्युक्ते असूयादिघटिताः केचन गुणाः मातृतः पुत्रे सङ्क्रामन्ति, अनीहत्वादयः केचन गुणाः पितृत इति लोकप्रसिद्धेरिति बोध्यम् । अन्यत्र अनसूयायाः अत्रिपत्न्या गर्भात् सम्भवं अत्यन्तकोपनम् । "चण्डस्त्वत्यन्तकोपनः" इत्यमरः । अतिकठिनः,
अनशनप्राणायामपूर्वकध्यानलक्षणः, यः
 
a. एतावान् न व्याख्यातः । b. "नदन्तमिव" -- इत्यधिकः व्याख्याने ।
 
[^१] "नासीरभटान्" इति व्याख्यात्रभिमतः पाठः ।
 
[^२] स्वयमपीत्यादिविशेषणस्य व्याख्याग्रन्थो लुप्तः गवेषणीयः ।
 
[^३] "योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः" इति यथार्थे वीप्सायां "अव्ययं विभक्ति--" (पा. सू. २.१.६) इत्यादिना, अर्थमर्थं प्रति = प्रत्यर्थम्, इतिवत् समास इति भावः ॥