2023-07-12 04:58:07 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  अवरुन्धन्त मध्वनि मिळन्ति सिद्धवधूकुलानि, त्रासयन्तमिव (कातरान्
  
  
  
  a तर्जयन्तमिव) '[^१]शुनासीरभटानपि, 'bगर्जन्तमित्रव, गायन्तमिव, नृत्यन्तमिव,
  
  
  
   स्खलन्तमित्रव, हसन्तमित्रव, हृदयारविन्दकुहरविहरदुन्मत्तशेखरभावना-
  
  
  
  नैरन्तर्यादुन्मत्तमित्रव, (स्वयमध्ये प्य[^२]वाप्तमस्तकामतया किञ्चिदप्यनादृत
  
  
  
   लोकतन्त्रानुविधानं,) त्रिलोचनावतारमप्यत्रिलोचनावतारसोदरं, अनसूया-
  
  
  
  गर्भ सम्भवमप्यत्यन्तकोपनं, अतिकठिनतपोविशेष परितोषितगौरीप्रसाद-
  
  
  
  समासादितामपि कयापि विद्याधरकन्यया प्रार्थनामात्रादेव शापभीतया
  
  
  
   
  
  
  
  '
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [Commentary]
  
  
  
   
  
  
  
  स तथोक्तम् । अनुपदं प्रतिपदम् । वीप्साया' [^३]मव्ययीभावः । आस्फोटयन्तं अङ्गुळि-
  
  
  
  स्फोटं कुर्वन्तम् । अध्वनि मिळन्ति सङ्घीभवन्ति, सिद्धवधूकुलानि अवरुन्धन्तम् ।
  
  
  
   नासीरभटान् । "सेनामुखं तु नासीरं" इत्यमरः । त्रासयन्तम् त्रासं कुर्वन्तं । "ब्रह्म-
  
  
  
  निष्ठश्चरेन्नित्यं बालोन्मत्तपिशाचवत्" इति शास्त्रादिति भावः । नदन्तमिव गर्जन्तमिव
  
  
  
   गायन्तमिव नृत्यन्तमिव स्खलन्तमिव हसन्तमित्रव, हृदयारविन्दकुहरे हृत्कमलाकाशे,
  
  
  
   विहरतः, उन्मत्तनामकं कुसुमं शेखरं यस्य स तथाभूतस्य, अन्यत्र भ्रान्तशिरोमणे-
  
  
  
  रित्यर्थः । "श्वेतार्कं श्वेतदूर्वा च बिल्वमुन्मत्तकं तथा । शिवप्रियाणि चैतानि
  
  
  
   द्रोणनीलोत्पले तथा II॥" इति शिवसहस्रनामभाष्योक्तेः । तस्य भावना सोऽहमि-
  
  
  
  त्यनुसन्धानं, तस्या नैरन्तर्यात्, उन्मत्त मिव । त्रिलोचनादवतारो जन्म यस्य स तथा-
  
  
  
  भूतोऽपि, अत्रिलोचनावतारसोदरं, त्रिलोचनावतारस्य सोदरो यस्तद्भिन्न इत्युक्ते-
  
  
  
  र्विरोध:धः । आभासस्तु, अत्रिमुनेः लोचनादवतारो यस्य स तथाभूतः, चन्द्रः,
  
  
  
   तस्य सोदरम् । अविद्यमाना असूया यस्यास्तस्याः गर्भसम्भवोऽपि, अत्यन्तकोपन
  
  
  
  
  
  
  
  इत्युक्ते र्विरोध: । कुत इत्युक्ते असूयादिघटिता:ताः केचन गुणा:णाः मातृतः पुत्रे सङ्क्रा-
  
  
  
  मन्ति, अनीहत्वादयः केचन गुणा:णाः पितृत इति लोकप्रसिद्धेरिति बोध्यम् ।
  
  
  
   अन्यत्र अनसूयायाः अत्रिपत्न्या गर्भात् सम्भवं अत्यन्तकोपनम् । "चण्डस्व-
  
  
  
  त्वत्यन्तकोपनः" इत्यमरः । अतिकठिनः ,
  
  
  
  अनशनप्राणायामपूर्वकध्यानलक्षणः, यः
  
  
  
   
  
  
  
  १
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  a. एतावान् न व्याख्यातः । b. "नदन्तमित्र" —-- इत्यधिक:कः व्याख्याने ।
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] "नासीरभटान्" इति व्याख्यात्रभिमतः पाठः ।
  
  
  
   
  
  
  
  2.
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [^२] स्वयमपीत्यादिविशेषणस्य व्याख्या ग्रन्थो लुप्त:तः गवेषणीयः ।
  
  
  
   
  
  
  
  3.
  
  
  
   
  
  
  
  " 
  
  
  
   
  
  
  
  [^३] "योग्यता वीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः" इति यथार्थे वीप्सायां
  
  
  
   
  
  
  
  "  "अव्य मंयं विभक्ति —--" (पा. सू. 2-1-6 २.१.६) इत्यादिना, अर्थमर्थं प्रति = प्रत्यर्थम्,
  
  
  
   इतिनवत् समास इति भावः ॥