This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
अवरुन्धन्त मध्वनि मिळन्ति सिद्धवधूकुलानि, त्रासयन्तमिव (कातरान्
तर्जयन्तमिव) 'शुनासीरभटानपि, 'गर्जन्तमित्र, गायन्तमिव, नृत्यन्तमिव,
स्खलन्तमित्र, हसन्तमित्र, हृदयाविन्दकुहरविहरदुन्मत्तशेखरभावना-
नैरन्तर्यादुन्मत्तमित्र, (स्वयमध्ये वाप्तमस्तकामतया किञ्चिदप्यनादृत
लोकतन्त्रानुविधानं,) त्रिलोचनावतारमप्यत्रिलोचनावतारसोदरं, अनसूया-
गर्भ सम्भवमप्यत्यन्तकोपनं, अतिकठिनतपोविशेष परितोषितगौरीप्रसाद-
समासादितामपि कयापि विद्याधरकन्यया प्रार्थनामात्रादेव शापभीतया
 
'
 
स तथोक्तम् । अनुपदं प्रतिपदम् । वीप्साया' मव्ययीभावः । आस्फोटयन्तं अङ्गुळि-
स्फोटं कुर्वन्तम् । अध्वनि मिळन्ति सङ्घीभवन्ति, सिद्धवधूकुलानि अवरुन्धन्तम् ।
नासीरभटान् । "सेनामुखं तु नासीरं" इत्यमरः । त्रासयन्तम् त्रासं कुर्वन्तं । "ब्रह्म-
निष्ठश्चरेन्नित्यं बालोन्मत्तपिशाचवत्" इति शास्त्रादिति भावः । नदन्तमिव गर्जन्तमिव
गायन्तमिव नृत्यन्तमिव स्खलन्तमिव हसन्तमित्र, हृदयारविन्दकुहरे हृत्कमलाकाशे,
विहरतः, उन्मत्तनामकं कुसुमं शेखरं यस्य स तथाभूतस्य, अन्यत्र भ्रान्तशिरोमणे-
रित्यर्थः । "श्वेतार्कं श्वेतदूर्वा च बिल्वमुन्मत्तकं तथा । शिवप्रियाणि चैतानि
द्रोणनीलोत्पले तथा II" इति शिवसहस्रनामभाष्योक्तेः । तस्य भावना सोऽहमि-
त्यनुसन्धानं, तस्या नैरन्तर्यात्, उन्मत्त मिव । त्रिलोचनादवतारो जन्म यस्य स तथा-
भूतोऽपि, अत्रिलोचनावतारसोदरं, त्रिलोचनावतारस्य सोदरो यस्तद्भिन्न इत्युक्ते-
विरोध: । आभासस्तु, अत्रिमुनेः लोचनादवतारो यस्य स तथाभूतः, चन्द्रः,
तस्य सोदरम् । अविद्यमाना असूया यस्यास्तस्याः गर्भसम्भवोऽपि, अत्यन्तकोपन
इत्युक्ते विरोध: । कुत इत्युक्ते असूयादिघटिता: केचन गुणा: मातृतः पुत्रे सङ्क्रा-
मन्ति, अनीहत्वादयः केचन गुणा: पितृत इति लोकप्रसिद्धेरिति बोध्यम् ।
अन्यत्र अनसूयायाः अत्रिपन्या गर्भात् सम्भवं अत्यन्तकोपनम् । "चण्डस्व-
त्यन्तकोपनः" इत्यमरः । अतिकठिनः अनशनप्राणायामपूर्वकध्यानलक्षणः, यः
 

 
a. एतावान् न व्याख्यातः । b. "नदन्तमित्र" — इत्यधिक: व्याख्याने ।
1. "नासीरभटान्" इति व्याख्यात्रभिमतः पाठः ।
 
2.
 
स्वयमपीत्यादिविशेषणस्य व्याख्या ग्रन्थो लुप्त: गवेषणीयः ।
 
3.
 
" योग्यता वीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः" इति यथार्थे वीप्सायां
 
" अव्य मं विभक्ति —" (पा. सू. 2-1-6 ) इत्यादिना, अर्थमर्थं प्रति = प्रत्यर्थम्,
इतिनत् समास इति भावः ॥