2023-07-28 13:07:29 by Bharadwajraki
This page has been fully proofread twice.
पारिकांक्षिणां रुद्राक्षमणिभिरभिवेष्टितं, सोदरशशाङ्कसन्देशहारिकाभिः तारकाभिरिव कर्णपुटाभ्यर्णलग्नाभिः स्फटिकाक्षगुळिकाभिरभिशोभितं, अगृहीतोत्तरासङ्गं अङ्गीकृतकौपीनमात्रपरिधानं, आस्फोटयन्तमनुपदं,
[Ccommentary]
मेदिनी । तेन भासुराभिः प्रकाशमानाभिः, हृदयमभिव्याप्य आपूर्य, अधिकतया आधिक्येन, बहिः निर्गमिष्यतः कोपानलस्य कोपाग्नेः, पाटलाभिः ज्वालाभिरिव स्थिताभिर्जटाभिरभिवेष्टितं आवृतं, अत एव तटित्वन्तं विद्युच्छालिनं, अभिनवं, शारदं शरत्कालिकमम्भोदं मेघं, तमप्यभिभवन्तमिव तिरस्कुर्वन्तमिव । त्रिभुवने ये मुनिलोकाः मुनिजनाः । "लोकस्तु भुवने जने" इत्यमरः । तेभ्यो यद्वैलक्षण्यं विशेषवैजात्यमिति यावत् । तस्य बोधिन्या बोधिकया सूचिकयेति यावत् । [^१]शापमूलः शापकारणकः यस्तपोलाभः तत्सम्भवया तदुत्पन्नया कीर्त्येव स्थितया । मुनेर्दुर्वाससोऽन्यत्र तपो नश्यति शापतः । दूर्वाससस्तु तपसो वृद्धिरित्याहुरास्तिकाः ॥" इत्युक्तेः । त्रिपुण्ड्ररेखया परिकल्पितमलङ्कृतं ललाटमण्डलं यस्य तम् । अतिप्रचण्डः अत्युल्बणः, यः कोपानलः तस्य ज्वालाभिः परिप्लोषो म्लानता, तेन मलिनितैः, पारिकांक्षिणां तापसानाम् । "पारिकाङ्ङ्क्षी वाचंयमो
मुनिः" इत्यमरः । प्रतिशापस्य प्रतिबिम्बीभूतशापस्य, प्रतिकूलशापस्येति यावत् । अक्षरैर्वर्णैरिव स्थितैः रुद्राक्षैरेव मणिभिरभिवेष्टितं वलयितम् । सोदरो यः शशाङ्कः, तस्य सन्देशस्य हारिकाभिः वक्त्रीभिः । "सन्देशवाग्वाचिकं स्यात्" इत्यमरः । तारकाभिरिव । "तारकाप्युडु वा स्त्रियाम्" इत्यमरः । तद्वत् स्थिताभिरिति यावत् । कर्णपुटस्याभ्यर्णम् उपकण्ठं, तत्र लग्नाभिः, स्फटिकाक्षैरेव गुळिकाभिः, अभिशोभितम् । अगृहीतं अस्वीकृतमुत्तरासङ्गं परिधानं येन स तथाभूतम् । अङ्गीकृतं कौपीनं[^२] पुरुषलिङ्गं, तदाच्छादनमपि उपचारात् कौपीनमित्युच्यते, तदेव तन्मात्रम् । "मात्रं कार्त्स्न्येऽवधारणे" इत्यमरः । परिधानं यस्य
[^१] शापमूलक इति बहुव्रीहिमाश्रित्य तस्य प्रमाणमाह व्याख्याता, "मुनेर्दूर्वाससोऽन्यत्र" इत्यादिना ॥
[^२] "शालीनकौपीने अधृष्टाकार्ययोः" (पा. सू. ५.२.२०) कूपपतनमर्हति कौपीनं पापम्, खप्रत्यायान्तो रूढिशब्दः निपात्यते। तत्साधनत्वात् तद्वत् गोप्यत्वाद्वा पुरुषलिङ्गमपि । तत्सम्बन्धात्तदाच्छादनमपि । अकार्यशब्दे करोतेः क्रियासामान्यवचनत्वात्, लज्जाहेतुत्वेनाद्रष्टव्यत्वात् पुरुषलिङ्गं कौपीनम्, अस्पृश्यत्वात्तदाच्छादनं कौपीनमिति चान्ये प्राहुः ॥
[