2023-07-12 04:44:42 by Bharadwajraki
This page has been fully proofread once and needs a second look.
  
  
  
  पारिकांक्षिणां रुद्राक्षमणिभिरभिवेष्टितं, सोदरशशाङ्क सन्देशहारिका भि:
  
  
  
  भिः तारकाभिरिव कर्णपुटाभ्यर्णलग्नाभिः स्फटिकाक्षगुळिकाभिरभिशोभितं,
  
  
  
   अगृहीतोत्तरासङ्गं अङ्गीकृत कौपीनमात्रपरिधानं, आस्फोटयन्तमनुपदं,
  
  
  
   
  
  
  
प्रथमाश्वासः
   
  
  
  
"
   
  
  
  
सोऽन्यत्र "
   
  
  
  
2.
   
  
  
  
66
   
  
  
  
  
  
  
  
   
  
  
  
[Commentary]
   
  
  
  
मेदिनी । तेन भासुराभिः प्रकाशमान भि:नाभिः, हृदयमभिव्याप्य आपूर्य, अधिकतया
  
  
  
   आधिक्येन, बहिः निर्गमिष्यतः कोपानलस्य कोपाग्नेनेः, पाटलाभि:भिः ज्वालाभिरिव
  
  
  
   स्थिताभिर्जटाभिरभिवेष्टितं आवृतं, अत एव तटित्वन्तं विद्ययुच्छा लिनं, अभिनवं,
  
  
  
   शारदं शरत्कालिकमम्भोदं मेघं, तमप्यभिभवन्तमिव तिरस्कुर्वन्तमिव । त्रिभुवने
  
  
  
   ये मुनिलोकाः मुनिजनाः । "लोकस्तु भुवने जने" इत्यमरः । तेभ्यो यद्वैलक्षण्यं
  
  
  
   विशेष वैजात्यमिति यावत् । तस्य बोधिन्या बोधिकया सूचिकयेति यावत् ।
  
  
  
1 [^१]शापमूल:लः शापकारणक:कः यस्तपोलाभः तत्सम्भ: तत्सम्भवया तदुत्पन्नया कीर्लेत्येव स्थितया ।
  
  
  
   मुनेर्दुर्वाससोऽन्यत्र तपो नश्यति शापतः । दूर्वाससस्तु तपसो वृद्धिरित्याहु-
  
  
  
  रास्तिकाः ॥" इत्युक्तेः । त्रिपुण्ड्ररेखया परिकल्पितमलङ्कृतं ललाटमण्डलं यस्य
  
  
  
   तम् । अतिप्रचण्डः अत्युल्वबणः, यः कोपानलः तस्य ज्वालाभिः परिप्लोषो
  
  
  
   म्लानता, तेन मलिनितै:तैः, पारिकांक्षिणां तापसानाम् । "पारिकाडूङ्ङ्क्षी वाचंयमो
  
  
  
  
  
  
  
मुनि: निः" इत्यमरः । प्रतिशापस्य प्रतिबिम्बीभूतशापस्य, प्रतिकूलशापस्येति यावत् ।
  
  
  
   अक्षरैर्वर्णैरिव स्थितैः रुद्राक्षैरेव मणिभिरभिवेष्टितं वलयितम् । सोदरो यः
  
  
  
   शशाङ्कः, तस्य सन्देशस्य हारिकाभिः वक्त्रीभिः । "सन्देशवाग्वाचिकं स्यात् "
  
  
  
  " इत्यमरः । तारकाभिरिव । "तारकाप्युडु वा स्त्रियाम्" इत्यमरः । तद्वत् स्थिताभि-
  
  
  
  रिति यावत् । कर्णपुटस्याभ्यर्णम् उपकण्ठं, तत्र लग्नाभिः, स्फटिकाक्षैरेव गुळि-
  
  
  
  काभिः, अभिशोभितम् । अगृहीतं अस्वीकृतमुत्तरासङ्गं परिधाननं येन स तथा-
  
  
  
  भूतम् । अङ्गीकृतं कौपीननं[^२] पुरुषलिङ्गं, तदाच्छादनमपि उपचारात् कौपीनमित्यु-
  
  
  
  च्यते, तदेव तन्मात्रम् । "मात्रं कार्त्स्न्येऽवधारणे" इत्यमरः । परिधानं यस्य
  
  
  
   
  
  
  
"
   
  
  
  
"मुनेदुर्वास -
   
  
  
  
1.
  
  
  
   
  
  
  
[^१] शापमूलक इति बहुव्रीहिमाश्रित्य तस्य प्रमाणमाह व्याख्याता,
  
  
  
   "मुनेर्दूर्वाससोऽन्यत्र" इत्यादिना ॥
  
  
  
   
  
  
  
>
   
  
  
  
3
   
  
  
  
  
  
  
  
   
  
  
  
[^२] "शालीन कौपीने अभृधृष्टाकार्ययोः" (पा. सू. 5-2-20 ५.२.२०) कूपपतन मर्हति
  
  
  
   कौपीनं पापम्, खप्रत्यायान्तो रूढिशब्दः निपात्यते। तत्साधनत्वात् तद्वत् गोप्यत्वाद्वा
  
  
  
   पुरुषलिङ्गमपि । तत्सम्बन्धात्तदाच्छादनमपि । अकार्यशब्दे करोतेः क्रिया सामान्यवचन-
  
  
  
  त्वात्, लज्जा हेतुत्वेनाद्रष्टव्यत्वात् पुरुषलिङ्गं कौपीनम्, अस्पृश्यत्वात्तदाच्छादनं कौपीन-
  
  
  
  मिति चान्ये प्राहुः ॥
  
  
  
   
  
  
  
9
   
  
  
  
  
प्रथमाश्वासः
"
सोऽन्यत्र "
2.
66
[Commentary]
मेदिनी । तेन भासुराभिः प्रकाशमा
1
मु
"
"मुनेदुर्वास -
1.
[^१] शापमूलक इति बहुव्रीहिमाश्रित्य तस्य प्रमाणमाह व्याख्याता,
>
3
[^२] "शालीन
9