This page has not been fully proofread.

पारिकांक्षिणां रुद्राक्षमणिभिरभिवेष्टितं, सोदरशशाङ्क सन्देशहारिका भि:
तारकाभिरिव कर्णपुटाभ्यर्णलग्नाभिः स्फटिकाक्षगुळिकाभिरभिशोभितं,
अगृहीतोत्तरासङ्गं अङ्गीकृत कौपीनमात्रपरिधानं, आस्फोटयन्तमनुपदं,
 
प्रथमाश्वासः
 
"
 
सोऽन्यत्र "
 
2.
 
66
 
मेदिनी । तेन भासुराभिः प्रकाशमान भि:, हृदयमभिव्याप्य आपूर्य, अधिकतया
आधिक्येन, बहिः निर्गमिष्यतः कोपानलस्य कोपाग्ने, पाटलाभि: ज्वालाभिरिव
स्थिताभिर्जटाभिरभिवेष्टितं आवृतं, अत एव तटित्वन्तं विद्यच्छा लिनं, अभिनवं,
शारदं शरत्कालिकमम्भोदं मेघं, तमप्यभिभवन्तमिव तिरस्कुर्वन्तमिव । त्रिभुवने
ये मुनिलोकाः मुनिजनाः । "लोकस्तु भुवने जने" इत्यमरः । तेभ्यो यद्वैलक्षण्यं
विशेष वैजात्यमिति यावत् । तस्य बोधिन्या बोधिकया सूचिकयेति यावत् ।
1 शापमूल: शापकारणक: यस्तपोलाभ: तत्सम्भवया तदुत्पन्नया कीर्लेव स्थितया ।
मुनेर्दुर्वाससोऽन्यत्र तपो नश्यति शापतः । दूर्वाससस्तु तपसो वृद्धिरित्याहु-
रास्तिकाः ॥" इत्युक्तेः । त्रिपुण्ड्ररेखया परिकल्पितमलङ्कृतं ललाटमण्डलं यस्य
तम् । अतिप्रचण्डः अत्युल्वणः, यः कोपानलः तस्य ज्वालाभिः परिप्लोषो
म्लानता, तेन मलिनितै:, पारिकांक्षिणां तापसानाम् । "पारिकाडूङ्क्षी वाचंयमो
मुनि: " इत्यमरः । प्रतिशापस्य प्रतिबिम्बीभूतशापस्य, प्रतिकूलशापस्येति यावत् ।
अक्षरैर्वर्णैरिव स्थितैः रुद्राक्षैरेव मणिभिरभिवेष्टितं वलयितम् । सोदरो यः
शशाङ्कः, तस्य सन्देशस्य हारिकाभिः वक्त्रीभिः । "सन्देशवाग्वाचिकं स्यात् "
इत्यमरः । तारकाभिरिव । "तारकाप्युडु वा स्त्रियाम्" इत्यमरः । तद्वत् स्थिताभि-
रिति यावत् । कर्णपुटस्याभ्यर्णम् उपकण्ठं, तत्र लग्नाभिः, स्फटिकाक्षैरेव गुळि-
काभिः, अभिशोभितम् । अगृहीतं अस्वीकृतमुत्तरासङ्गं परिधान येन स तथा-
भूतम् । अङ्गीकृतं कौपीन पुरुषलिङ्गं, तदाच्छादनमपि उपचारात् कौपीनमित्यु-
च्यते, तदेव तन्मात्रम् । "मात्रं कार्येऽवधारणे" इत्यमरः । परिधानं यस्य
 
"
 
"मुनेदुर्वास -
 
1. शापमूलक इति बहुव्रीहिमाश्रित्य तस्य प्रमाणमाह व्याख्याता,
इत्यादिना ॥
 
>
 
3
 
"शालीन कौपीने अभृष्टाकार्ययोः" (पा. सू. 5-2-20 ) कूपपतन मर्हति
कौपीनं पापम् खप्रत्यायान्तो रूढिशब्दः निपात्यते। तत्साधनत्वात् तद्वत् गोप्यत्वाद्वा
पुरुषलिङ्गमपि । तत्सम्बन्धात्तदाच्छादनमपि । अकार्यशब्दे करोतेः क्रिया सामान्यवचन-
त्वात्, लज्जा हेतुत्वेनाद्रष्टव्यत्वात् पुरुषलिङ्गं कौपीनम् अस्पृश्यत्वात्तदाच्छादनं कौपीन-
मिति चान्ये प्राहुः ॥
 
9