2023-07-28 05:37:15 by Bharadwajraki
This page has been fully proofread twice.
गच्छन्नेव स नभसि, भसितावकुण्ठितसर्वाङ्गसङ्गलब्धपरभागभासुराभिरभिव्याप्य हृदयमधिकतया बहिर्निर्गमिष्यतः कोपानलस्य ज्वालाभिरिव पाटलाभिर्जटाभि[^१]रभिभवन्तमिव तटित्वन्तमभिनवं
शारदाम्भोदं, अपि च त्रिभुवनमुनिलोकवैलक्षण्यबोधिन्या शापमूलतपोलाभसम्भवया कीर्त्येव त्रिपुण्ड्ररेखया परिकर्मितललाटमण्डलं, [^२]अतिप्रचण्डनिजतपोऽनलज्वालाकलापपरिप्लोषमलिनितैः प्रतिशापाक्षरैरिव
[Ccommentary]
व्यवस्था मर्यादा" इति यादवः । दिष्ट्येति पाठान्तरम् । तत्पाठे अग्रे पुरोभाग इति पश्चाद्भाग इति उभयत इति त्यक्तलोकव्यवस्थे, परिणते सञ्जाते इत्यर्थः । तस्मिन् इन्द्रे । दिष्ट्या सुखेन । "दिष्टिर्ज्ञानसुखानन्दपरिणामेषु" इति भास्करः । अत एव सर्वतः सम्मुखीने सति, अवशिष्टं समं, परिणते सम्पन्ने तस्मिन्निन्द्रे, सर्वतः परितः। सम्मुखीने सम्मुख साधावपि, अभिमुखे [^३]सत्यपीत्यर्थः । भ्रुवोःभङ्गः उत्पातनं, तेन सहितं, सस्मितं स्मितेन सहितं, नयनवलनमपि दर्शनचातुर्यमिति यावत् । भूयः अधिकं, पुनर्द्रष्टुकामाः दिदृक्षवः सुरपरिवृढाः । "प्रभौ परिबृढः" (पा. सू. ७.२.२१) इति निपातनात्[^४] साधुः । आधिकारिकाः सुरा इत्यर्थः । अग्रेऽपि पुञ्जीबभूवुः सङ्घीबभूवुरित्यर्थः । रमणीयवस्तुदर्शने को वा न प्रयतत इति भावः । विद्याधरीहस्तात् दुर्वाससा समादाय दत्तस्य कालिकाप्रसादलब्धनिर्माल्यस्य अनादरस्पर्शोऽपीन्द्रस्यामृतप्राप्तौ मूलहेतुरिति मनसि निधाय तत्सङ्गतित्वेन शिवपूजानन्तरं मध्येमार्गं शिवभक्तधुरन्धरं दुर्वाससं ददर्शेत्याह । स इति ॥ स इन्द्रः । गच्छन्नेव, परिक्रामन्नेव नभसि । भसितेन भस्मना, अवकुण्ठितानि छन्न।नि, सर्वाणि, यान्यङ्गानि, तेषां सङ्गेन, लब्धः यः परभागो वर्णोत्कर्षः । "परभागस्स्थालथल्यं[^५] चाकचक्यमिति त्रयम् । वर्णोत्कर्ष इति प्राहुः" इति
[^१] अत्र व्याख्यानुसारेण 'अभिवेष्टितम्' इत्यधिकः पाठः ।
[^२] अतिप्रचण्डकोपानलज्वालापरिप्लोषमलिनितैरिति व्याख्यानुसारी पाठः ।
[^३] "यथामुखसंमुखस्य दर्शनः खः" (पा. सू. ५.२.६) इति सूत्रेण खे, "आयनेयी" -- (पा. सू. ७.१.२) इत्यादिना ईनादेशे रूपम् ॥ सर्वस्य मुखस्य दर्शनः = सम्मुखीनः इति विग्रहः, अस्वपदसमासः । समशब्दस्य सर्वार्थकस्य प्रत्ययसन्नियोगेनान्ताकारलोपो निपात्यते ॥ "संयुगे सम्मुखीनं तम् " -- इति तु भट्टिः ॥
[^४] "बृह बृहि = वृद्धौ" इत्यस्मात् धातोः निपातनम् । क्तस्येडभावः तस्य ढत्वं, हस्य लोपः, इदितो नलोपश्च निपातनाल्लभ्यते । दृढः = स्थूले बलवति च इतिवत् ॥
[^५] "फालफल्यम्" -- इति स्यात् ।

[