2023-07-11 15:21:22 by Bharadwajraki
This page has been fully proofread once and needs a second look.
नीलकण्ठविजये सव्याख्याने
गच्छन्नेव स नभसि, भसितावकुण्ठितसर्वाङ्गसङ्गलब्धपरमाभाग-
भासुराभिरभिव्याप्य हृदयमधिकतया बहिर्निर्गमिष्यतः कोपानलस्य
ज्वालाभिरिव पाटलाभिर्जटाभि[^१]रभिभवन्तमिव तटित्वन्तमभिनवं
शारदाम्भोदं, अपि च त्रिभुवनमुनिलो कवैलक्षण्यबोधिन्या शापमूल-
तपोलाभसम्भवया कीर्त्येव त्रिपुण्ड्ररेखया परिकर्मितललाटमण्डलं, '[^२]अति-
प्रचण्डनिजतपोऽनलज्वालाकलापपरिप्लोष म लिनितैः प्रतिशापाक्षरैरिव
३४
[Commentary]
व्यवस्था मर्यादा" इति यादवः । दिष्टट्येति पाठान्तरम् । तत्पाठे अग्रे पुरोभाग
इति पश्चाद्भाग इति उभयत इति त्यक्तलोकव्यवस्थे, परिणते सञ्जाते इत्यर्थः ।
तस्मिन् इन्द्रे । दिष्टट्या सुखेन । "दिष्टिर्ज्ञानसुखानन्दपरिणामेषु" इति भास्करः ।
अत एव सर्वतः सम्मुखीने सति, अवशिष्टं समं, परिणते सम्पन्नने तस्मिन्निन्द्रे,
सर्वतः परितः। सम्मुखीने सम्मुख साधावपि, अभिमुखे `[^३]सत्यपीत्यर्थः । भ्रुवोःभङ्गः
उत्पातनं, तेन सहितं, सस्मितं स्मितेन सहिततं, नयनवलनमपि दर्शनचातुर्यमिति
यावत् । भूयः अधिकं, पुनर्द्रष्टुकामा:माः दिदृक्षव:वः सुरपरिवृढा:ढाः । "प्रभौ परिबृढ : "
ढः" (पा. सू. 7-2-21७.२.२१) इति निपातनात् +[^४] साधुः । आधिकारिकाः सुरा इत्यर्थः ।
अग्रेऽपि पुञ्जीचबभूवुः सङ्घीबभूवुरित्यर्थः । रमणीयवस्तुदर्शने को वा न प्रयतत
इति भावः । विद्याधरीहस्तात् दुर्वाससा समादाय दत्तस्य कालिकाप्रसादलब्ध-
निर्माल्यस्य अनादरस्पर्शोऽपीन्द्रस्यामृतप्राप्तौ मूलहेतुरिति मनसि निवाधाय तत्सङ्गति-
त्वेन शिवपूजानन्तरं मध्येमार्गगं शिवभक्तधुरन्धरं दुर्वाससं ददर्शेत्याह । स इति ॥
स इन्द्रः । गच्छन्नंव, परिकानेव, परिक्रामन्नेव नभसि । भसितेन भस्मना, अवकुण्ठितानि
छन्न।नि, सर्वाणि, यान्यङ्गानि, तेषां सङ्गेन, लब्धः यः परभागो वर्णोत्कर्षः ।
"परभागस्स्थालथल्यं[^५] चाकचक्यमिति त्रयम् । वर्णोत्कर्ष इति प्राहुः " इति
1.
3.
" इति
[^१] अत्र व्याख्यानुसारेण 'अभिवेष्टितम्' इत्यधिकः पाठः ।
2.
[^२] अतिप्रचण्डकोपानलज्वालापरिप्लोषमलिनितैरिति व्याख्यानुसारी पाठः ।
'
[^३] "यथामुखसंमुखस्य दर्शनः खः" (पा. सू. 5-2-6५.२.६) इति सूत्रेण खे, "आयनेयी" -
- (पा. सू. 7-1-2७.१.२) इत्यादिना ईना देशे रूपम् ॥ सर्वस्य मुखस्य दर्शन:नः = सम्मुखीन:
नः इति विग्रहः, अस्वपदसमासः । समशब्दस्य सर्वार्थकस्य प्रत्ययसन्नियोगेनान्ताकार लोपो
निं निपात्यते ॥ "संयुगे सम्मुखीनं तम् " -- इति तु भट्टिः ॥
नेयी "
4.
[^४] "बृह बृहि = वृद्धौ " इत्यस्मात् धातोः निपातनम् । क्तस्येडभावः तस्य ढत्वं,
हस्य लोपः, इदितो नलोपश्च निपातनाल्लभ्यते । दृढ : -ढः = स्थूले बलवति च इतिवत् ॥
[^५] "फालफल्यम्" - इति स्यात् ।
5.
-
इति स्यात् ।