This page has been fully proofread twice.

श्लाघाश्लोकशतैश्च चारणगणप्रोद्गीयमानैस्तदा
नादब्रह्ममयीव तत्र रुरुचे नासीरसीमा हरेः ॥ २२ ॥
 
अपिच ।
 
अग्रे पश्चादुभयत इति त्यक्तलोकव्यवस्थे
दृष्ट्या तस्मिन्नपि परिणते सर्वतः सम्मुखीने ।
सभ्रूभङ्गं नयनवलनं सस्मितं द्रष्टुकामाः
भूयोऽप्यग्रे सुरपरिबृढास्तस्य पुञ्जीबभूवुः ॥ २३ ॥
 
[commentary]
 
देवयोनिविशेषाणां गणेन प्रोद्गीयमानैः । श्लाघा स्तुतिः । "श्लाघृ [^१]कत्थने" इति धातोः पचादित्वादच्प्रत्ययः । ततोऽदन्तलक्षणष्टाप् । श्लाघारूपा ये श्लोकाः पद्यानि । "पद्ये यशसि च श्लोके" इत्यमरः । तेषां शतैरनेकैश्च, तत्र काले, हरेरिन्द्रस्य, नासीरसीमा सेनामुखभागः । डाबुभाभ्यामन्यतरस्याम्" (पा. सू. 4.1.13) इति सीमन्शब्दाद्वैकल्पिको डाप्प्रत्ययः । नादब्रह्ममयीव शब्दब्रह्मरूपेव । प्राचुर्ये[^२] मयट् । रुरुचे चकासे । "रुच[^३] दीप्तौ" इत्यस्मात् कर्तरि लिट् । इन्द्रः सहस्राक्षतया सर्वतः प्रसृतचक्षुरपि देवाः सस्मितचक्षुःप्रसरणमेव केवलं दिदृक्षवः तस्य पुरोभाग एव सङ्घीबभूवुरित्याह अग्र इति ॥ अत्रेदं बोध्यम् । जङ्गमाजङ्गमभेदेन लोको द्विविधः । तत्र केचन अग्रेदृष्टयः, यथा मानवाः, केचन पश्चाद्दृष्टयः, यथा सर्पविशेषाः, व्याळग्राहिभिरानीतेषु दृष्टप्रसिद्धाः, केचन उभयतोदृष्टयः असुरविशेषाः, इतिहासपुराणादिप्रसिद्धाः, केचन सर्वतोऽप्यदृष्टयः नगवृक्षादयः । अयमिन्द्रस्तु पार्श्वाभ्यां सर्वतोदृष्टिरिति वस्तुस्थितिः । अग्रे अग्रभागे, पश्चात् पश्चाद्भागे । उभयतः अग्रपृष्ठभागयोर्द्वयोश्चेति, दृष्ट्या दर्शनेन, त्यक्तलोकव्यवस्थे उत्सृष्टलोकमर्यादे । "सीमा
 
[^१] कवर्गीयान्तेषु अनुदात्तेत्सु द्विचत्वारिंशद्धातुषु अन्तिमोऽयं "श्लाघृ = कत्थने" इति । "नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः" (पा.सू. १.३.१३४) इत्यनेन पचादित्वात् अच् ॥
 
[^२] "तत्प्रकृतवचने मयट्" (पा. सू. ५.५.२१5) इति सूत्रेण अन्नमयो यज्ञः, अपूपमयं पर्व इतिवत् अधिकरणे प्राचुर्ये मयडिति भावः ॥
 
[^३] "अथ कृपूपर्यन्ताः अनुदात्तेतः" -- इत्यारभ्य पठितेषु पंचविंशतिसंख्याकधातुषु
"रुच दीप्तावभिप्रीतौ च" "रोचते सूर्यः" "हरये रोचते भक्तिः" इत्ययं भौवादिकः षष्ठः ॥