This page has been fully proofread once and needs a second look.

प्रथमाश्वासः
 
श्लाघा श्लोकशतैश्च चारणगणप्रोद्गीयमानैस्तदा

नादब्रह्ममयीव तत्र रुरुचे नासीरसीमा हरेः ॥ २२ ॥
 

 
अपिच ।
 

 
अग्रे पश्चादुभयत इति त्यक्तलोकव्यवस्थे
 

दृष्ट्या तस्मिन्नपि परिणते सर्वतः सम्मुखीने ।

ञ्जभ्रूभङ्गं नयनवलनं सस्मितं द्रष्टुकामाः
 

भूयोऽप्यग्रे सुरपरिबृढास्तस्य पुञ्जीबभूवुः ॥ २३ ॥
 
AWA
 
AAM
 
66
 
66
 

 
[commentary]
 
देवयोनिविशेषाणां गणेन प्रोद्गीयमानैः । श्लाघा स्तुतिः । "श्लाघृ
'
[^१]कत्थने " इति धातोः पचादित्वादच्प्रत्ययः । ततोऽदन्तलक्षणष्टाप् ।
श्लाघारूपा ये श्लोकाः पद्यानि । "पद्ये यशसि च श्लोके " इत्यमरः ।
तेषां शतैरनेकैश्च, तत्र काले, हरेरिन्द्रस्य, नासीरसीमा सेनामुखभागः ।
डाबुभाभ्यामन्यतरस्याम्" (पा. सू. 4-.1-.13) इति सीमन्शब्दाद्वैकल्पिको
डाप्प्रत्ययः । नादब्रह्ममयीव शब्दब्रह्मरूपेव । प्राचुर्य मयटूये[^२] मयट् । रुरुचे चकासे ।
"रुच'[^३] दीप्तौ" इत्यस्मात् कर्तरि लिट् । इन्द्रः सहस्राक्षतया सर्वतः प्रसृतचक्षुरपि
देवाः सस्मितचक्षुःप्रसरणमेव केवलं दिदृक्षवः तस्य पुरोभाग एव सङ्घीत्रभूवुरि-
त्याह अग्र इति ॥ अत्रेदं बोध्यम् । जङ्गमाजङ्गमभेदेन लोको द्विविधः ।
तत्र केचन अग्रेदृष्टयः, यथा मानवाः, केचन पश्चाद्दृष्टयः, यथा सर्पविशेषाः,
व्याळग्राहि भिरानीनेतेषु दृष्टप्रसिद्धाः, केचन उभयतोदृष्टयः असुरविशेषाः, इतिहास-
पुराणादिप्रसिद्धाः, केचन सर्वतोऽप्यदृष्टयः नगवृक्षादयः । अयमिन्द्रस्तु पार्श्वाभ्यां
सर्वतोदृष्टिरिति वस्तुस्थितिः । अग्रे अग्रभागे, पश्चात् पश्चाद्भागे । उभयतः अग्र-
पृष्ठभागयोर्द्वयोश्चेति, दृष्ट्या दर्शनेन, त्यक्तलोकव्यवस्थे उत्सृष्टलोकमर्यादे । "सीमा
 
1.

 
[^१]
कवर्गीयान्तेषु अनुदात्तेत्सु द्विचत्वारिंशद्धातुषु अन्तिमोऽयं "श्लाघृ = कत्थने"
इति । "नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः" (पा.सू. 1-3-134१.३.१३४) इत्यनेन पचादित्वात् अच् ॥
2.

 
[^२]
"तत्प्रकृतवचने मयट्" (पा. सू. ५.५.२१5.4-21 ) इति सूत्रेण अन्नमयो यज्ञः,
अपूपमयं पर्व इतिवत् अधिकरणे प्राचुर्ये मयडिति भावः ॥
 
3.

 
[^३]
"अथ कृपूपर्यन्ताः अनुदात्तेत:" तः" -- इत्यारभ्य पठितेषु पंचविंशति संख्या कधातुषु

"रुच दीप्तावभिप्रीतौ च " " " "रोचते सूर्य : " " यः" "हरये रोचते भक्तिः" इत्ययं भौवादिकः षष्टःठः
N– 6