This page has been fully proofread once and needs a second look.

३२
 
नीलकण्ठविजये सव्याख्याने
 
तपत्रेण सफलयन्न निमिषदृष्टिसृष्टिमम्भोजसम्भवस्य,
गन्धर्वकुलवाद्यमानबहुविधातोद्यनिनादकबळीकृताशावकाशतयेव
 

सङ्कुलचलितसेनासङ्घ
सङ्कटोन्मुक्तसिंहनादधारापथे निर्जगाम तारापथे ॥

 
मञ्जीरैर्नटनार्भटीमुखरितैः स्वर्वारवामध्भ्रुवां

मन्द्र स्निग्धरवैश्च किन्नरकरव्यापारितैर्मर्दलैः ।
 
गन्धर्वकुलवाद्यमान-
सङ्कुलचलित सेनासङ्घ-
-
 

 
[commentary]
 
क्षतानि व्रणानि, तद्विवरेभ्यः तच्छिद्रेभ्यः, क्षरन्त्यः स्रवन्त्यः, याः
अमृतधाराः, तासां सहस्रेण मण्डितेन अलङ्कृतेन, शशाङ्कस्य चन्द्रस्य मण्डलेनेव
स्थितेन, महता आतपत्रेण । अम्भोजसम्भवस्य ब्रह्मणः । न विद्यमाना, निमिषा
निमेषा, यासां तासां दृष्टीनां, सृष्टिटिं निर्माणं, सफलयन् सफलं कुर्वन् ।
1

[^१]
"तत्करोति" इति ण्यन्ताल्लटश्शत्रादेशः । गन्धर्वकुलैर्वाद्यमानानि नादितानि यानि,
बहुविधानि अनेकविधानि, आतोद्यानि वंशताळमृदङ्गवीणालक्षणानि, तेषां
निनदेन नादेन, कबळीकृत:तः आशानां दिशामवकाशो यस्य स तस्य भावस्तत्ता
तयेव । सङ्कुलं तुमुलं यथा तथा, चलिताः याः सेनाः, तासां सङ्घेन सङ्कटेन
सम्बाधेन । "सङ्कटं ना तु सम्बाघ : धः" इत्यमरः । उन्मुक्त:, त्यक्तः सिंहनादस्य
धारायाः परम्परायाः पन्था यस्य तथाभूते, तारापथे नक्षत्रमार्गे, निर्जगाम ययौ ।
मे: 2 मेः [^२]कर्तरि लिट् । तदानीं सकलमपि इन्द्रसेनामुखं नादमयं ब्रह्मव
मेव समजनीत्याह । मञ्जी रैरिति नटनस्य ताण्डवस्य । "ताण्डवं नटनम् "
" इत्यमरः । आर्भटी प्रक्रमः, तस्यां मुखरितैः नादितैः, स्वर्वारवामभ्रुवां स्वर्वेश्यानां,

मञ्जीरैः पादकटकैः। "मञ्जीरो नूपुरोऽस्त्रियाम्" इत्यमरः । किन्नरकरैः व्यापारितैः
ध्वनितैः ताडितैरिति वा । अत एव मन्द्राः गम्भीराः, स्निग्धाः रमणीयाः, रवाः
येषां तैः, र्मर्दलैः पणवैः । "मर्दल: पणवोऽन्ये च " इत्यमरः । चारणानां
 
""
 
-
 
1.

 
[^१]
" तत्करोति तदाचष्टे" -- इति वार्तिकेन -- णिजन्तात् "वर्तमाने लट् "
(पा. सू. 3-2-123३.२.१२३) इति लट् । सफलयति इति तिङन्तरूपम् ॥ तस्मात् "लट:टः शतृ -
शानचावप्रथमासमानाधिकरणे" (पा. सू. 3-2-124३.२.१२४) इति तिङ:ङः अकरणेन शता ॥ ततः
प्रथमैकवचने कृदन्तः
सफलयन्" इति शब्दः ॥
 
2.

 
[^२]
"गम्ऌ, सप्ऌ -- गतौ " इत्यस्मात् भौत्रावादिकात् "अथ परस्मैपदिन:"
नः" -- इत्यारभ्य पठितात् षोडशसु पंचमात् धातो:तोः निरुपसृष्टात् कर्तरि "परोक्षे लिट्" (पा. सू.
3-2-115
३.२.११५ ) इति सूत्रेण लिट् इति भावः ॥