2023-06-05 16:39:41 by ambuda-bot
This page has not been fully proofread.
३२
नीलकण्ठविजये सव्याख्याने
तपत्रेण सफलयन्न निमिषदृष्टिसृष्टिमम्भोजसम्भवस्य,
बहुविधातोद्यनिनादकबळीकृताशावकाशतयेव
सङ्कटोन्मुक्तसिंहनादधारापथे निर्जगाम तारापथे ॥
मञ्जीरैर्नटनार्भटीमुखरितैः स्वर्वारवामध्रुवां
मन्द्र स्निग्धरवैश्च किन्नरकरव्यापारितैर्मर्दलैः ।
गन्धर्वकुलवाद्यमान-
सङ्कुलचलित सेनासङ्घ-
-
क्षतानि व्रणानि, तद्विवरेभ्यः तच्छिद्रेभ्यः, क्षरन्त्यः सवन्त्यः, याः
अमृतधाराः, तासां सहस्रेण मण्डितेन अलङ्कृतेन, शशाङ्कस्य चन्द्रस्य मण्डलेनेव
स्थितेन, महता आतपत्रेण । अम्भोजसम्भवस्य ब्रह्मणः । न विद्यमाना, निमिषा
निमेषा, यासां तासां दृष्टीनां, सृष्टि निर्माण, सफलयन् सफलं कुर्वन् ।
1"तत्करोति" इति ण्यन्तालटश्शत्रादेशः । गन्धर्वकुलैर्वाद्यमानानि नादितानि यानि,
बहुविधानि अनेकविधानि, आतोद्यानि वंशताळमृदङ्गवीणालक्षणानि, तेषां
निनदेन नादेन, कबळीकृत: आशानां दिशामवकाशो यस्य स तस्य भावस्तत्ता
तयेव । सङ्कुलं तुमुलं यथा तथा, चलिताः याः सेनाः, तासां सङ्घेन सङ्कटेन
सम्बाधेन । "सङ्कटं ना तु सम्बाघ : " इत्यमरः । उन्मुक्त:, त्यक्तः सिंहनादस्य
धारायाः परम्परायाः पन्था यस्य तथाभूते, तारापथे नक्षत्रमार्गे, निर्जगाम ययौ ।
गमे: 2 कर्तरि लिट् । तदानीं सकलमपि इन्द्रसेनामुख नादमयं ब्रह्मव
समजनीत्याह । मञ्जी रैरिति नटनस्य ताण्डवस्य । "ताण्डवं नटनम् "
इत्यमरः । आर्भटी प्रक्रमः, तस्यां मुखरितैः नादितैः, स्वर्वारवामभ्रुवां स्वर्वेश्यानां,
मञ्जीरैः पादकटकैः। "मञ्जीरो नूपुरोऽस्त्रियाम्" इत्यमरः । किन्नरकरैः व्यापारितैः
ध्वनितैः ताडितैरिति वा । अत एव मन्द्राः गम्भीराः, स्निग्धाः रमणीयाः, रवाः
येषां तैः, र्मर्दलैः पणवैः । "मर्दल: पणवोऽन्ये च " इत्यमरः । चारणानां
""
-
1. " तत्करोति तदाचष्टे" – इति वार्तिकेन — णिजन्तात् "वर्तमाने लट् "
(पा. सू. 3-2-123) इति लट् । सफलयति इति तिङन्तरूपम् ॥ तस्मात् "लट: शतृ -
शानचावप्रथमासमानाधिकरणे" (पा. सू. 3-2-124) इति तिङ: अकरणेन शता ॥ ततः
प्रथमैकवचने कृदन्तः
सफलयन्" इति शब्दः ॥
2. "गम्ऌ, सप्ऌ — गतौ " इत्यस्मात् भौत्रादिकात् "अथ परस्मैपदिन:"
इत्यारभ्य पठितात् षोडशसु पंचमात् धातो: निरुपसृष्टात् कर्तरि "परोक्षे लिट्" (पा. सू.
3-2-115 ) इति सूत्रेण लिट् इति भावः ॥
—