2023-07-28 05:13:47 by Bharadwajraki
This page has been fully proofread twice.
मभागः, पुरोभागचलदलघुजङ्घालकरितुरगसङ्घजङ्घाजवद्रवदमरभटकोटिसम्मर्दशिथिलहारमर्दन- जनितमुक्तापरागसम्बन्धादिव धवळीकृतेन ससम्भ्रमवलदम्बरचरनितम्बिनीलोकविकीर्यमाणमन्दारकुसुमबृन्दनिस्सरन्मकरन्दधारानिरासायेव मकुटमुपर्युपरि धार्यमाणेन सर्वतः प्रालम्बमुक्तासरकदम्बशालितया समन्ततो निहितकुपितविधुन्तुदविकटदन्तक्षतविवरक्षरदमृतधारासहस्रमण्डितेन मण्डलेनेव शशाङ्कस्य, महता-
[Ccommentary]
सविलासं सहावम् । अध्यासित आक्रान्तः, चरमभागः पृष्ठभागो यस्य सः । पुरोभागे पुरः प्रदेशे चलत् मन्दं गच्छत् अलघु जङ्घालं वेगवत्तरम् । "प्राणिस्थादातो[^१] लजन्यतरस्याम्" (५.२.९६) इति लच् प्रत्ययः । करिणश्च तुरगाश्च करितुरगम् । "द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्"[^२] (पा.सू. २.४.२) इत्येकवद्भावः । तस्य सिङ्घः समूहः तस्य जङ्घाजवेन जङ्घा वेगेन । "जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ" इत्यमरः। द्रवन्तः धावन्तः ये अमराणां भटाः, तेषां कोट्यः शतलक्षाः, तासां सम्मर्दः सङ्घर्षः, तेन शिथिलाः त्रुटिताः, ये हाराः, तेषां मर्दनं नाशः, तेन जनिता उत्पादिताः, ये मुक्तानां परागाः धूलयः, तेषां सम्बन्धादिव । धवलीकृतेन शुभ्रीकृतेन । ससम्भ्रमं सत्वरम्। "सम्भ्रमोऽत्यादरे भीतौ वेगे" इति भास्करः । तथा वलन्तः चलन्तः, येऽम्बरचरनितम्बिनीलोकाः देवस्त्रीजनाः । "लोकस्तु भुवने जने" इत्यमरः । तैर्विकीर्यमाणानि यानि मन्दारकुसुमानि तेषां बृन्दं सङ्घः, तस्मान्निस्सरन्त्यः या मकरन्दधाराः, तासां निरासायेव निवारणायेव । मकुटमुपर्युपरि किरीटस्य समीपोर्ध्वभाग इत्यर्थः । "उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु । द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥" इति शास्त्रात्, मकुटमित्यत्र द्वितीया । धार्यमाणेन कारितेन कृतेन वा । सर्वतः समन्ततः प्रालम्बः लम्बमानः, मुक्तासराणां मुक्ताहाराणां कदम्बः, तच्छालितया । समन्ततोऽपि सर्वतोऽपि । निहिता विन्यस्ताः निखाता इति यावत् । ये कुपितस्य विधुन्तुदस्य राहोः । "विध्वरुषोस्तुदः" (पा. सू. ३.२.३५ ) इति खश् । "अरुर्द्विषत्" (पा. सू. ६.३.६) इत्यादिना मुम् । "सैंहिकेयो विधुन्तुदः" इत्यमरः । विकटाः निष्ठुराः ये दन्ताः, तत्कृतानि यानि
[^१] चूडालः इतिवत् जङ्घालशब्दः मत्वर्थीयान्तः । अलघुशब्दः तरबर्थद्योतकः ॥
[^२] एकवद्भावः - नित्यं समाहारद्वन्द्व एवेति नियमः । न "धवखदिरौ" इतिवत्पक्षे करितुरगौ इति इतरेतरयोगद्वन्द्वसमास इति भावः ॥
[