This page has been fully proofread once and needs a second look.

३१
 
घवळीकृतेन
 
ममा
मभागः, पुरोभागचलदलघुजङ्घालक रितुरगसङ्घजङ्घा जवद्रवद मरभट -
कोटिसम्मर्द शिथिलहारमर्दन- जनितमुक्तापरागसम्बन्धादिव
धवळीकृतेन ससम्भ्रमवलदम्बरचरनित म्बिनी लोक विकीर्यमाण मन्दारकुसुमबृन्दनिस्सर-
न्मकरन्दधारानिरासायेव मकुटमुपर्युपरि धार्यमाणेन सर्वतः प्रालम्ब-
मुक्तासरकदम्बशालितया समन्ततो निहितकुपितविधुन्तुदविकटदन्त-
क्षतविवरक्षरदमृतधारासहस्रमण्डितेन मण्डलेनेव शशाङ्कस्य, महता-
प्रथमाश्वासः
 

 
[Commentary]
 
सविलासं सहावम् । अध्यासित आक्रान्तः, चरमभागः पृष्ठभागो यस्य सः । पुरोभागे
पुर:रः प्रदेशे चलत् मन्दं गच्छत् अलघु जङ्घालं वेगवत्तरम् । "प्राणिस्थादातो'
लजन्यतरस्याम्'
[^१] लजन्यतरस्याम्" (5-2-96५.२.९६) इति लच् प्रत्ययः । करिणश्च तुरगाश्च करितुरगम् ।
"द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् 1 1 2"[^२] (पा.सू. 2-4-2२.४.२) इत्येकवद्भावः । तस्य सिङ्घः
समूहः तस्य जङ्घाजवेन जङ्घा वेगेन । "जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ"
इत्यमरः। द्रवन्त:तः धावन्त:तः ये अमराणां भटाः, तेषां कोट्यः शतलक्षाः, तासां सम्मर्दः
सङ्घर्षः, तेन शिथिलाः त्रुटिताः, ये हाराः, तेषां मर्दनं नाश:शः, तेन जनिता उत्पा-
दिताः, ये मुक्तानां परागाः धूलयः, तेषां सम्बन्धादिव । धवलीकृतेन शुश्भ्रीकृतेन ।
ससम्भ्रमं सत्वरम्। "सम्भ्रमोऽत्यादरे भीतौ वेगे" इति भास्करः । तथा वलन्तः
चलन्तः, येऽम्बरचरनितम्बिनीलोका:काः देवस्त्रीजनाः । "लोकस्तु भुवने जने"
इत्यमरः । तैर्विकीर्यमाणानि यानि मन्दारकुसुमानि तेषां बृन्दं सङ्घः,
तस्मान्निस्सरन्त्यः या मकरन्दधाराः, तासां निरासायेव निवारणायेव ।
मकुटमुपर्युपरि किरीटस्य समीपोर्ध्वभाग इत्यर्थः । "उभसर्वतसोः कार्या
धिगुपर्यादिषु त्रिषु । द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥" इति
शास्त्रात्, मकुटमित्यत्र द्वितीया । धार्यमाणेन कारितेन कृतेन वा । सर्वतः
समन्ततः प्रालम्बः लम्बमानः, मुक्तासराणां मुक्ताहाराणां कदम्बः, तच्छालितया ।
समन्ततोऽपि सर्वतोऽपि । निहिता विन्यस्ता:ताः निखाता इति यावत् । ये
कुपितस्य विधुन्तुदस्य राहो:होः । "विध्वरुषोस्तुद:दः" (पा. सू. 3-235३.२.३५ ) इति
खश् । "अरुर्द्विषत्" (पा. सू. 6-3-67६.३.६) इत्यादिना मुम् । "सैंहिकेयो
विधुन्तुदः" इत्यमरः । विकटा:टाः निष्ठुरा:राः ये दन्ताः, तत्कृतानि यानि
 
,
 
66
 
1.

 
[^१]
चूडाल:लः इतिवत् जङ्घालशब्द:दः मत्वर्थीयान्तः । अलघुशब्दः तरबर्थद्योतकः ॥
2.

 
[^२]
एकवद्भावः - नित्यं समाहारद्वन्द्व एवेति नियमः । न "धवखदिरौ" इतिवत्
पक्षे करितुरगौ इति इतरेतरयोगद्वन्द्वसमास इति भावः ॥