2023-07-28 05:11:31 by Bharadwajraki
This page has been fully proofread twice.
वेत्रिवेत्रलताघातविद्रावितवीथीभवदमरमण्डलं, अभितोऽपि दृष्टिगोचरसन्निधापितकरितुरगपर्यङ्किकादिनानाविधवाहनग्राममालोक्य सेनामुखं, आलोकमात्रविदितेङ्गितैराधोरणवृद्धैरुपस्थापितमर्णवनिमग्नमैनाकपक्षरक्षणाभ्यर्थनायागतं हिमवन्तमिवोन्नतमवदातं च कञ्चिदारुह्य मतङ्गजं, अङ्गजराज्यसौभाग्यदेवतयेव शरीरिण्या ताम्बूलकरण्डधारिण्या मेनकया, मदनमदकदुष्णसौवर्गकामिनीकटाक्षसंसर्गनिवारणायेव मणिचामरोपवीजनकुशलारम्भया रम्भया च सविलासमध्यासितचर-
[commentary]
त्रिकं नाट्यगीतवाद्यलक्षणाङ्गत्रयोपेतनाट्यं यस्मिन् तत् । "तौर्यत्रिकं नृत्तगीतवाद्यं नाट्यमिदं त्रयम्" इत्यमरः । अत्युद्भटः अतिदुस्सहः, यः, वेत्रिणां वेत्रसंज्ञकदण्डहस्तानाम् । वेत्रलतया कशाकल्पया, आघातस्ताडनं, तेन विद्रावितानि निष्कासितानि, वीथीभवन्ति पङ्क्तीभवन्ति । 'वीथ्याळिरावळिः पङ्क्तिः' इत्यमरः । अमराणां देवानां मण्डलानि यस्मिन् तत् । 'मण्डलं चक्रवालकम्' इत्यमरः । अभितोऽपि सर्वतोऽपि । दृष्टिगोचरः दृष्टिविषयः, सन्निधापित: समीपं प्रापितः । करितुरगपर्यङ्किकादीनां गजाश्वचतुरङ्गयानादीनां नानाविधानामनेकेषां, वाहनानां ग्रामः समूहो यस्मिंस्तत्तथाभूतम् । सेनामुखं नासीरम्, आलोक्य दृष्ट्वा । आलोकमात्रेण दर्शनमात्रेण । "आलोकौ दर्शनोद्योतौ" इत्यमरः । विदितं ज्ञातं, इङ्गितं तात्पर्यं, यैस्तैः । आधोरणवृद्धाः वृद्धाधोरणाः, तैरित्यर्थः । "निकारोऽपि प्रकारः स्यादाकारस्त्विङ्ग इङ्गितम्", 'आधोरणा हास्तिपकाः' इत्युभयत्रामरः । उपस्थापितं आनीतं, समीपं प्रापितमित्यर्थः । अर्णवे निमग्नः निमज्य स्थितः, मैनाकः, तस्य पक्षयोः गरुतोः, रक्षणं पालनं, तस्य अभ्यर्थनाय प्रार्थनार्थं, आगतं समीपं प्रतीति शेषः । उन्नतं प्रांशुं हिमवन्तमिव स्थितं, तत्तुल्यमित्यर्थः । अवदातं शुभ्रम् । 'अवदातस्सितो गौरः' इत्यमरः । कञ्चन मतङ्गजं एकं गजमारुह्य । शरीरिण्या शरीरवत्या । अङ्गन्जस्य मदनस्य । राज्यसौभाग्ये साम्राज्यमाहात्म्ये । तदभिमानिनी या देवता तयेव स्थितया । ताम्बूलकरण्डस्य ताम्बूलपात्रस्य, धारिण्या तद्धारयन्त्या, मेनकया नामाप्सरसा । मदनमदेन मन्मथकृतमत्ततया, कदुष्णाः ईषदुष्णाः । "कवञ्चोष्णे" ( ६.३.१०७ ) इति चकारात् कदादेशः । ते च ते सौवर्गीणां[^१] स्वर्गे भवानां, कामिनीनां कामुकीनां कटाक्षाः, तत्संसर्गस्य तत्सम्बन्धस्य वारणायेव निवारणार्थमिव । मणिचामरस्य उपवीजने, कुशलः श्रमाप्राप्तिलक्षणः आरम्भ उपक्रमः यस्याः तया, रम्भया च ।
[^१] "पुंवत्कर्मधारय" (६.३.४२) इत्यादिना पुंस्त्वमिति भावः ।