2023-07-11 14:27:06 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  नीवेत्रिवेत्रलकण्ठताघातविजये सव्याख्याने
  
  
  
   
  
  
  
  द्रावितवीथीभवदमरमण्डलं, अभितोऽपि दृष्टिगोचर-
  
  
  
  सन्निधापित करितुरगपर्यङ्किकादिनानाविधवाहनग्राममालोक्य सेनामुखं,
  
  
  
   आलोक मात्र विदितेङ्गितैराधोरणवृद्धैरुपस्थापित मर्णवनिमग्र नमैना कपक्षरक्ष-
  
  
  
  णाभ्यर्थनायागतं हिमवन्तमिवोन्नतमवदातं च कञ्चिदारुह्य मतङ्गजं,
  
  
  
   अङ्गजराज्यसौभाग्यदेवतयेव शरीरिण्या ताम्बूलकरण्डधारिण्या मेन-
  
  
  
  कया, मदनमदकदुष्णसौ वर्ग वर्गका मिनी कटाक्ष संसर्गनिवारणायेव मणि-
  
  
  
  चामरोपवीजनकुशलारम्भया रम्भया च सविलासमध्यासितचर-
  
  
  
  ३०
  
  
  
   
  
  
  
  वेत्रिवेत्रलताघातविद्रावितवीथीभवद
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  त्रिकं नाट्यगीतवाद्यलक्षणाङ्गत्रयोपेतनाटचंट्यं यस्मिन् तत् । '"तौर्यत्रिकं नृत्तगीतवाद्य
  
  
  
  यं नाट्यमिदं त्रयम्" इत्यमरः । अत्युद्भटटः अतिदुस्सहः, यः, वेत्रिणां वेत्रसंज्ञकदण्ड-
  
  
  
  हस्तानाम् । वेत्रलतया कशाकल्पया, आघातस्ताडनं, तेन विद्रावितानि निष्कासि -
  
  
  
  तानि, वीथीभवन्ति पङ्क्तीभवन्ति । 'वीथ्याळिरावळि:ळिः पङ्क्तिः' इत्यमरः । अमराणां
  
  
  
   देवानां मण्डलानि यस्मिन् तत् । 'मण्डलं चक्रवालकम् ' इत्यमरः । अभितोऽपि
  
  
  
   सर्वतोऽपि । दृष्टिगोचरः दृष्टिविषयः, सन्निधापित: समीपं प्रापितः । करितुरग-
  
  
  
  पर्यङ्किकादीनां गजाश्वचतुरङ्गयानादीनां नानाविधानामनेकेषां, वाहनानां ग्रामः
  
  
  
   समूहो यस्मिंस्तत्तथाभूतम् । सेनामुखं नासीरम्, आलोक्य दृष्ट्वा । आलोकमात्रेण दर्शन-
  
  
  
  मात्रेण । "आलोकौ दर्शनोद्योतौ" इत्यमरः । विदितं ज्ञातं, इङ्गितं तात्पर्ययं, यैस्तैः ।
  
  
  
   आधोरणवृद्धाः वृद्धाधोरणाः, तैरित्यर्थः । "निकारोऽपि प्रकारः स्यादाकारस्त्विङ्ग
  
  
  
   इङ्गितम्'", 'आधोरणा हास्तिपकाः' इत्युभयत्रामरः । उपस्थापितं आनीततं, समीपं
  
  
  
   प्रापितमित्यर्थः । अर्णवे निमग्नः निमज्य स्थितः, मैनाकः, तस्य पक्षयोः गरुतोः,
  
  
  
   रक्षणं पालनं, तस्य अभ्यर्थनाय प्रार्थनार्थं, आगतं समीपं प्रतीति शेषः । उन्नतं
  
  
  
   प्रांशुं हिमवन्तमिव स्थितं, तत्तुल्यमित्यर्थ:थः । अवदातं शुभ्रम् । 'अवदातस्सितो गौर: रः'
  
  
  
   इत्यमरः । कञ्चन मतङ्गजं एकं गजमारुह्य । शरीरिण्या शरीरवत्या । अङ्गन्जस्य
  
  
  
   मदनस्य । राज्यसौभाग्ये साम्राज्यमाहात्म्ये । तदभिमानिनी या देवता तयेव स्थितया ।
  
  
  
   ताम्बूलकरण्डस्य ताम्बूलपात्रस्य, धारिण्या तद्धारयन्त्या, मेनकया नामाप्सरसा ।
  
  
  
   मदनमदेन मन्मथकृतमत्ततया, कदुष्णा:णाः ईषदुष्णा:णाः । "कवञ्चोष्णे" ( 6-3-107६.३.१०७ )
  
  
  
   इति चकारात् कदादेशः । ते च ते सौवर्गीणां[^१] स्वर्गे भवानां, कामिनीनां कामुकीनां
  
  
  
   कटाक्षाः, तत्संसर्गस्य तत्सम्बन्धस्य वारणायेव निवारणार्थमिव । मणिचामरस्य
  
  
  
   उपवीजने, कुशललः श्रमाप्राप्तिलक्षण:णः आरम्भ उपक्रमः यस्याः तया, रम्भया च ।
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] "पुंवत्कर्मधारय" (6-3-42६.३.४२) इत्यादिना पुंस्त्वमिति भावः ।