This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
मरमण्डलं, अभितोऽपि दृष्टिगोचर-
सन्निधापित करितुरगपर्यङ्किकादिनानाविधवाहनग्राममालोक्य सेनामुखं,
आलोक मात्र विदितेङ्गितैराधोरणवृद्धैरुपस्थापित मर्णवनिमग्र मैना कपक्षरक्ष-
णाभ्यर्थनायागतं हिमवन्तमिवोन्नतमवदातं च कञ्चिदारुह्य मतङ्गजं,
अङ्गजराज्यसौभाग्यदेवतयेव शरीरिण्या ताम्बूलकरण्डधारिण्या मेन-
कया, मदनमदकदुष्णसौ वर्ग का मिनी कटाक्ष संसर्गनिवारणायेव मणि-
चामरोपवीजनकुशलारम्भया रम्भया च सविलासमध्यासितचर-
३०
 
वेत्रिवेत्रलताघातविद्रावितवीथीभवद
 
"
 
त्रिकं नाट्यगीतवाद्यलक्षणाङ्गत्रयोपेतनाटचं यस्मिन् तत् । 'तौर्यत्रिकं नृत्तगीतवाद्य
नाट्यमिदं त्रयम्" इत्यमरः । अत्युद्भट अतिदुस्सहः, यः, वेत्रिणां वेत्रसंज्ञकदण्ड-
हस्तानाम् । वेत्रलतया कशाकल्पया, आघातस्ताडनं, तेन विद्रावितानि निष्कासि -
तानि, वीथीभवन्ति पङ्क्तीभवन्ति । 'वीथ्याळिरावळि: पङ्क्तिः' इत्यमरः । अमराणां
देवानां मण्डलानि यस्मिन् तत् । 'मण्डलं चक्रवालकम् ' इत्यमरः । अभितोऽपि
सर्वतोऽपि । दृष्टिगोचरः दृष्टिविषयः, सन्निधापित: समीपं प्रापितः । करितुरग-
पर्यङ्किकादीनां गजाश्वचतुरङ्गयानादीनां नानाविधानामनेकेषां, वाहनानां ग्रामः
समूहो यस्मिंस्तत्तथाभूतम् । सेनामुखं नासीरम्, आलोक्य दृष्ट्वा । आलोकमात्रेण दर्शन-
मात्रेण । "आलोकौ दर्शनोद्योतौ" इत्यमरः । विदितं ज्ञातं, इङ्गितं तात्पर्य, यैस्तैः ।
आधोरणवृद्धाः वृद्धाधोरणाः, तैरित्यर्थः । "निकारोऽपि प्रकारः स्यादाकारस्त्विङ्ग
इङ्गितम्', 'आधोरणा हास्तिपकाः' इत्युभयत्रामरः । उपस्थापितं आनीत, समीपं
प्रापितमित्यर्थः । अर्णवे निमग्नः निमज्य स्थितः, मैनाकः, तस्य पक्षयोः गरुतोः,
रक्षणं पालनं, तस्य अभ्यर्थनाय प्रार्थनार्थं, आगतं समीपं प्रतीति शेषः । उन्नतं
प्रांशुं हिमवन्तमिव स्थितं, तत्तुल्यमित्यर्थ: । अवदातं शुभ्रम् । 'अवदातस्सितो गौर: '
इत्यमरः । कञ्चन मतङ्गजं एकं गजमारुह्य । शरीरिण्या शरीरवत्या । अङ्गन्जस्य
मदनस्य । राज्यसौभाग्ये साम्राज्यमाहात्म्ये । तदभिमानिनी या देवता तयेव स्थितया ।
ताम्बूलकरण्डस्य ताम्बूलपात्रस्य, धारिण्या तद्धारयन्त्या, मेनकया नामाप्सरसा ।
मदनमदेन मन्मथकृतमत्ततया, कदुष्णा: ईषदुष्णा: । "कवञ्चोष्णे" ( 6-3-107)
इति चकारात् कदादेशः । ते च ते सौवर्गीणां स्वर्गे भवानां, कामिनीनां कामुकीनां
कटाक्षाः, तत्संसर्गस्य तत्सम्बन्धस्य वारणायेव निवारणार्थमिव । मणिचामरस्य
उपवीजने, कुशल श्रमाप्राप्तिलक्षण: आरम्भ उपक्रमः यस्याः तया, रम्भया च ।
1. "पुंवत्कर्मधारय" (6-3-42) इत्यादिना पुंस्त्वमिति भावः ।