This page has been fully proofread twice.

वीणागुणाभि:, (aआकुञ्चितऋजूकृतभ्रूलतं आविष्कृतलुप्तसिराबन्धकन्धरं अन्तरेव कलमधुरं आरब्धगीतिभिः) द्विस्त्रिरास्फालितसव्यचरणमृदुरणितमञ्जीरमञ्जुळाभिरप्सरोभिरारप्स्यमानतौर्यत्रिकं, अत्युद्भट-
 
[commentary]
 
लीलायां सुगतालये" इति विश्वः । सोपसर्गस्य[^१] हरतेर्नानार्थत्वात् । तत्र कौतूहलेन कुतुकेन । "कौतूहलं कौतुकं च कुतुकं च कुतूहलम्" इत्यमरः । बहिः तीराद्बहिः । निर्गत्य निर्गम्य । इतस्ततः परितः, निष्क्रान्तं अन्तराळं अवकाशो यस्मिन् कर्मणि तत्तथा । मिळन्तः सङ्घीभवन्तः, आशीर्वचोभिः स्वस्तिवचनैः मुखराः नदन्तः, ये गीर्वाणमुनयः नारदाद्याः सुरर्षयः, तेषां सङ्घेन सङ्कुलम् । अतिकोमलाः अकट्ट्यः, अङ्गुळिदळानां अङ्गुळ्यग्राणाम्। "दळं खण्डे दळं पर्णे"
इति नानार्थमाला । तेषामाघातेन ताडनेन, शोधितस्य सुष्ठु कृतस्य, मृदङ्गस्य मर्दळस्य, नादभङ्ग्यः नादपरम्परा यासां ताभिः । अधरे निवेशिताश्च ते अपनीताश्चेति स्नातानुलिप्तवत् पूर्वकालसमासः[^२] । अधरविन्यस्तत्यक्ता वेणवः ध्वनद्वंशा यासां ताभिः । आस्फालिता नादिताः, आकृष्टवीणागुणाः समीकृतवीणातन्तवो याभिस्ताभिः । "गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु" इत्यमरः । द्विस्त्रिः द्वित्रिवारं, आस्फालितः विलिखितः । कर्तरि क्तः । यः सव्यचरणः वामपादः ।
"वामं शरीरे सव्यं स्यात्" इत्यमरः । तस्य मृदुरणितं अकटुध्वनिः तद्विशिष्टो यो मञ्जीरः पादकटकः । "मञ्जीरो नूपुरोऽस्त्रियाम्" इत्यमरः । तेन मञ्जुळाभिः रमणीयाभिः । अप्सरोभिः अप्सरस्त्रीभिः । आरप्स्यमानं उपक्रमिष्यमाणं, तौर्य-
 
a. "आकुञ्चितऋजूकृतभ्रूलतं इत्यारभ्य "आरब्धगीतिभिः" इत्यन्तमूलग्रन्थस्य व्याख्याग्रन्थः मुद्रितपुस्तककोशे लुप्तः ॥ विशेषणत्रयं क्रियाविशेषणमारम्भक्रियायाः । भ्रूललता पूर्वं ईषद्वक्रिता पश्चात् ऋजूकृता । सिराबन्धः पूर्वमाविष्कृतः पश्चात् लुप्तः यस्मिन्कन्धरे ग्रीवायां, तादृशः कन्धरः यस्मिन् कर्मणि तत् । स्नातानुलिप्तवत् पूर्वकालैकेति विशेषणोभयपदकर्मधारयसमासः । अन्तरेव "काकली तु कले सूक्ष्मे" इति कलेन सूक्ष्मध्वनिना मधुरम् ॥ इति ग्रन्थः स्यात् कदाचित् ॥
 
[^१] न केवलमुपसर्गयोगात् धातोरर्थान्तरवर्तिता, अपि तु समानैकोपसर्गयोगेनापि नानार्थकता, शब्दशक्तिस्वाभाव्यात् । अतः विहारः = क्रीडा, भ्रमणं, सञ्चारश्चेति नानार्थकत्वं युक्तमिति भावः ॥
 
[^२] "पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन'' (पा.सू. २.१.४९) इति सूत्रेण विशेषणं विशेष्येणेति सिद्धे पूर्वनिपातनियमार्थम्, एकशब्दस्य "दिक्संख्ये संज्ञायाम्"( २.१.५० ) इति नियमबाधनार्थं चारब्धेन, पूर्वमघरे निवेशिताः च ते पश्चात् अपनीताश्च इति कर्मधारय समासः विशेषणोभयपदकः इत्यर्थः ॥