This page has been fully proofread once and needs a second look.

प्रथमाश्वोसः
 
२९
 
वीणागुणाभि:, (aआकुञ्चितऋजूकृतभ्रूलतं आविष्कृतलुप्तसिराबन्ध कन्धरं
अन्तरेव कलमधुरं आरब्धगीतिभिः) द्विस्त्रिरास्फालितसव्यचरण-
मृदुरणित मञ्जीर मञ्जुळाभिरप्सरोभिरारप्स्य मानतौर्यत्रिकं, अत्युद्भट
 
-
 
[commentary]
 
लीलायां सुगतालये" इति विश्व:वः । सोपसर्गस्य[^१] हरतेर्नानार्थत्वात् । तत्र कौतूहलेन
कुतुकेन । "कौतूहलं कौतुकं च कुतुकं च कुतूहलम्" इत्यमरः । बहिः तीराद्-
बहिः । निर्गत्य निर्गम्य । इतस्ततः परितः, निष्क्रान्तं अन्तराळं अवकाशो
यस्मिन् कर्मणि तत्तथा । मिळन्तः सङ्घीभवन्तः, आशीर्वचोभिः स्वस्तिवचनैः
मुखरा:राः नदन्तः, ये गीर्वाणमुनयः नारदाद्याः सुरर्षयः, तेषां सङ्घेन सङ्कुलम् ।
अतिकोमलाः अकट्ट्यः, अङ्गुळिदळानां अङ्गुळ्यग्राणाम्। "दळं खण्डे दळं पर्णे"

इति नानार्थमाला । तेषामाघातेन ताडनेन, शोधितस्य सुष्ठु कृतस्य, मृदङ्गस्य
मर्दळस्य, नादभङ्गच:ग्यः नादपरम्परा यासां ताभिः । अधरे निवेशिताश्च ते अप-
नीताश्चेति स्नातानुलिप्तवत् पूर्वकालसमास:सः[^२] । अधर विन्यस्तत्यक्ता वेणवः ध्वनद्वंशा
यासां ताभिः । आस्फालिता नादिताः, आकृष्टवीणागुणा:णाः समीकृतवीणातन्तवो
याभिस्ताभिः । "गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु" इत्यमरः । द्विस्त्रिः
द्वित्रिवारं, आस्फालित:तः विलिखितः । कर्तरि क्तः । यः सव्यचरणः वामपादः ।

"वामं शरीरे सव्यं स्यात्" इत्यमरः । तस्य मृदुरणितं अकटुध्वनिः तद्विशिष्टो
यो मञ्जीर:रः पादकटक:कः । "मञ्जीरो नूपुरोऽस्त्रियाम्" इत्यमरः । तेन मञ्जुळाभिः
रमणीयाभिः । अप्सरोभिः अप्सरस्त्रीभिः । आरप्स्यमानं उपक्रमिष्यमाणं, तौर्य-
2
 

 
a,. "आकुञ्चितऋजूकृत भूभ्रूलतं इत्यारभ्य "आरब्धगीतिभि: भिः" इत्यन्तमूलप्ग्रन्थस्य
व्याख्या ग्रन्थः मुद्रितपुस्तककोशे लुप्तः ॥ विशेषणत्रयं क्रियाविशेषणमारम्भ क्रियायाः ।
भ्रूललता पूर्वं ईषद्वक्रिता पश्चात् ऋजूकृता । सिराबन्धः पूर्वमाविष्कृतः पश्चात् लुप्तः यस्मिन्
कन्धरे ग्रीवाश्रांयां, तादृशः कन्धरः यस्मिन् कर्मणि तत् । स्नातानुलिप्तवत् पूर्वक़ाकालै केति
विशेषणोभयपदकर्मधारय समासः । अन्तरेव ""काकली तु कले सूक्ष्मे " इति कलेन
सूक्ष्मध्वनिना मधुरम् ॥ इति ग्रन्थ:थः स्यात् कदाचित् ॥
 
1.

 
[^१]
न केवलमुपसर्गयोगात् धातोरर्थान्तरवर्तिता, अपि तु समानैकोपसर्गयोगेनापि
नानार्थकता, शब्दशक्तिस्वाभाव्यात् । अतः विहार:रः = क्रीडा, भ्रमणं, सञ्चारश्चेति नानार्थ-
कत्वं युक्तमिति भावः ॥
 
2.

 
[^२]
"पूर्वकालैकसर्व जरत्पुराणनवकेवला:लाः समानाधिकरणेन'' (पा.सू. 2-1-49२.१.४९) इति
सूत्रेण विशेषणं विशेष्येणेति सिद्धे पूर्वनिपातनियमार्थम्, एकशब्दस्य "दिक्संख्ये संज्ञायाम्"
( 2-1-50२.१.५० ) इति नियमबाधनार्थं चारब्धेन, पूर्वमघरे निवेशिताः च ते पश्चात्
अपनीताश्च इति कर्मधारय समासः विशेषणोभयपदकः इत्यर्थः ॥