2023-06-05 16:39:41 by ambuda-bot
This page has not been fully proofread.
प्रथमाश्वोसः
२९
वीणागुणाभि:, (आकुञ्चितऋजूकृतअलतं आविष्कृतलुप्तसिराबन्ध कन्धरं
अन्तरेव कलमधुरं आरब्धगीतिभिः) द्विस्त्रिरास्फालितसव्यचरण-
मृदुरणित मञ्जीर मञ्जुळाभिरप्सरोभिरारप्स्य मानतौर्यत्रिकं, अत्युद्भट
लीलायां सुगतालये" इति विश्व: । सोपसर्गस्थ हरतेर्नानार्थत्वात् । तत्र कौतूहलेन
कुतुकेन । "कौतूहलं कौतुकं च कुतुकं च कुतूहलम्" इत्यमरः । बहिः तीराद्-
बहिः । निर्गत्य निर्गम्य । इतस्ततः परितः, निष्क्रान्तं अन्तराळं अवकाशो
यस्मिन् कर्मणि तत्तथा । मिळन्तः सङ्घीभवन्तः, आशीर्वचोभिः स्वस्तिवचनैः
मुखरा: नदन्तः, ये गीर्वाणमुनयः नारदाद्याः सुरर्षयः, तेषां सङ्घेन सङ्कुलम् ।
अतिकोमलाः अकट्ट्यः, अङ्गुळिदळानां अङ्गुळ्यग्राणाम्। "दळं खण्डे दळं पर्णे"
इति नानार्थमाला । तेषामाघातेन ताडनेन, शोधितस्य सुष्ठु कृतस्य, मृदङ्गस्य
मर्दळस्य, नादभङ्गच: नादपरम्परा यासां ताभिः । अधरे निवेशिताश्च ते अप-
नीताश्चेति स्नातानुलिप्तवत् पूर्वकालसमास: । अधर विन्यस्तत्यक्ता वेणवः ध्वनद्वंशा
यासां ताभिः । आस्फालिता नादिताः, आकृष्टवीणागुणा: समीकृतवीणातन्तवो
याभिस्ताभिः । "गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु" इत्यमरः । द्विस्त्रिः
द्वित्रिवारं, आस्फालित: विलिखितः । कर्तरि क्तः । यः सव्यचरणः वामपादः ।
"वामं शरीरे सव्यं स्यात्" इत्यमरः । तस्य मृदुरणितं अकटुध्वनिः तद्विशिष्टो
यो मञ्जीर: पादकटक: । "मञ्जीरो नूपुरोऽस्त्रियाम्" इत्यमरः । तेन मञ्जुळाभिः
रमणीयाभिः । अप्सरोभिः अप्सरस्त्रीभिः । आरप्स्यमानं उपक्रमिष्यमाणं, तौर्य-
2
a, "आकुञ्चितऋजूकृत भूलतं इत्यारभ्य "आरब्धगीतिभि: " इत्यन्तमूलप्रन्थस्य
व्याख्या ग्रन्थः मुद्रितपुस्तककोशे लुप्तः ॥ विशेषणत्रयं क्रियाविशेषणमारम्भ क्रियायाः ।
भ्रूललता पूर्व ईषद्वक्रिता पश्चात् ऋजूकृता । सिराबन्धः पूर्वमाविष्कृतः पश्चात् लुप्तः यस्मिन्
कन्धरे ग्रीवाश्रां, तादृशः कन्धरः यस्मिन् कर्मणि तत् । स्नातानुलिप्तवत् पूर्वक़ालै केति
विशेषणोभयपदकर्मधारय समासः । अन्तरेव ""काकली तु कले सूक्ष्मे " इति कलेन
सूक्ष्मध्वनिना मधुरम् ॥ इति ग्रन्थ: स्यात् कदाचित् ॥
1. न केवलमुपसर्गयोगात् धातोरर्थान्तरवर्तिता, अपि तु समानैकोपसर्गयोगेनापि
नानार्थकता, शब्दशक्तिस्वाभाव्यात् । अतः विहार: = क्रीडा, भ्रमणं, सञ्चारश्चेति नानार्थ-
कत्वं युक्तमिति भावः ॥
2. "पूर्वकालैकसर्व जरत्पुराणनवकेवला: समानाधिकरणेन'' (पा.सू. 2-1-49) इति
सूत्रेण विशेषणं विशेष्येणेति सिद्धे पूर्वनिपातनियमार्थम्, एकशब्दस्य "दिक्संख्ये संज्ञायाम्"
( 2-1-50 ) इति नियमबाधनार्थ चारब्धेन, पूर्वमघरे निवेशिताः च ते पश्चात्
अपनीताच इति कर्मधारय समासः विशेषणोभयपदकः इत्यर्थः ॥