This page has been fully proofread once and needs a second look.

पङ्कजैः, आराध्य सुरभिघृतधारानुबन्धिना दिव्यधूपेन, निसर्गचलितरश्मिमालाकलापेन रत्नदीपेन च, साङ्गाय सायुधाय सावरणाय साभरणाय च निवेद्य सद्यस्समाहृतनिष्पीडितेन्दुमण्डलनिष्यन्दमानापर्युषितान्यमृतानि, प्रदक्षिणीकृत्य, प्रणिपत्य, प्रसाद्य पञ्चभिःप्रसूनाञ्जलिभिः, स्तुत्वा श्रुतिशिरोभिः कृत्वा विसर्जनं, अथ स्मृत्वा चिरन्तनमात्मनि, विलासवीथीविहारकौतूहलेन निर्गत्य बहिः, इतस्ततो निरन्तराळमिळदाशीर्वचोमुखरगीर्वाणमुनिसङ्घसङ्कुलं, अतिकोमलाङ्गुळिदळाघातशोधितमृदङ्गनादभङ्गिभिरघरनिवेशितापनीतवेणुभिः असकृदास्फालिताकृष्ट-
 
[Commentary]
 
श्रीगन्धेन अनुलिप्य लेपनं कृत्वा, गाङ्गेयानि गङ्गोत्पन्नानि, विकसितानि[^३] गाङ्गेयपङ्कजानि सुवर्णपद्मानि । "तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरं" इत्यमरः । तैरभ्यर्च्य पूजयित्वा । सुरभेः कामधेनोर्या घृतधारा, तदनुबन्धिना तत्सम्बन्धिना दिव्येन श्लाघ्येन धूपेन । निसर्गात् स्वभावात् । चलितः, प्रसृतः, रश्मीनां किरणानां या माला, तस्याः कलापो यस्य स तथाभूतेन । रत्नमेव दीपः, तेन च । आराध्य प्रसेव्य । साङ्गाय दुर्गागणपत्याद्यङ्गदेवतासहिताय । यद्वा अङ्गैः पञ्चमुखनीलग्रीवदशभुजादिलक्षणैरववैस्सहिताय । सायुधाय आयुधैः त्रिशूलपरशुटङ्कादिभिस्सहिताय । सावरणाय आवरणैर्धर्मज्ञानवैराग्यैश्वर्यादिलक्षणावरणदैवतैः
सहिताय । साभरणाय आभरणैश्चन्द्रावतंसशेषकुण्डलवासुकिकङ्कणादिलक्षणैः सहिताय । परमेश्वरायेति शेषः । सद्यः तत्कालं, समाहृतमानीतं, निष्पीडितं यद्राकेन्दुमण्डलं, तस्मान्निष्यन्दमानानि निम्सरन्ति, अपर्युषितानि नूतनानि, अमृतानि पीयूषाणि, निवेद्य निवेदनां कृत्वा । समर्प्येत्यर्थः । प्रदक्षिणीकृत्य प्रदक्षिणं कृत्वा । प्रणिपत्य नमस्कारं कृत्वा । पञ्चभिः प्रसूनाञ्जलिभिः पञ्चसङ्ख्याकैः पुष्पाञ्जलिभिरित्यर्थः । प्रसाद्य क्षमापयित्वेत्यर्थः । "आवाहनं न जानामि न जानामि
विसर्जनम्। पूजाविधिं न जानामि क्षमस्व परमेश्वर" इति रीत्येति भावः । श्रुतिशिरोभिरुपनिषद्भिः, स्तुत्वा स्तुतिं कृत्वा । विसर्जनमुद्रासनं, कृत्वा । अथ विसर्जनानन्तरं, आत्मनि स्वस्मिन्, चिरन्तनं परमेश्वरम्, आगत्य स्थितं, स्मृत्वा ध्यात्वा । विलासार्थं वीथ्यां, विहारः सञ्चारः, भ्रमणमिति यावत् । "विहारो भ्रमणे स्कन्दे
 
[^३] "विकच" इति मूल पाठः, "विकसित" इति व्याख्यातृपाठः । गाङ्गेयपदं द्व्यर्थकम्, गङ्गोत्पन्नसुवर्णरूपार्थभेदात् ॥