2023-07-08 06:32:18 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  ૨૮
  
  
  
   
  
  
  
  नीलपङ्कण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  पङ्कजै:जैः, आराध्य सुरभिघृतधारानुबन्धिना दिव्यधूपेन, निसर्गचलितर-
  
  
  
  श्मिमालाकलापेन रत्नदीपेन च, साङ्गाय सायुधाय सावरणाय साभ-
  
  
  
  रणाय च निवेद्य सद्यस्स माह हृतनिष्पीडितेन्दु मण्डल निष्यन्द मानापर्युषि-
  
  
  
  तान्यमृतानि, प्रदक्षिणीकृत्य, प्रणिपत्य, प्रसाद्य पञ्चभि: भिःप्रसूनाञ्जलिभिः,
  
  
  
   स्तुत्वा श्रुतिशिरोभिः कृत्वा विसर्जनं, अथ स्मृत्वा चिरन्तनमात्मनि,
  
  
  
   विलासवीथी विहार
  
  
  
  कौतूहलेन निर्गत्य बहिः, इतस्ततो निरन्तराळमिळदा-
  
  
  
  शीर्वचोमुखरगीर्वाण मुनिसङ्घसङ्कुलं, अतिको मलाङ्गुळिदळाघातशोधित-
  
  
  
  मृदङ्गनादभङ्गिभिरघरनिवेशितापनीतवेणुभिः असकृदास्फालिताकृष्ट-
  
  
  
  
  
  
  
   
  
  
  
  [Commentary]
  
  
  
   
  
  
  
  श्रीगन्धेन अनुलिप्य लेपनं कृत्वा, गाङ्गेयानि गङ्गोत्पन्नानि, विकसितानि'[^३] गाङ्गेन्य-
  
  
  
  यपङ्कजानि सुवर्णपद्मानि । "तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्वुबुरं " इत्यमरः ।
  
  
  
   तैरभ्यर्च्य पूजयित्वा । सुरभे:भेः कामधेनोर्या वृघृतधारा, तदनुबन्धिना तत्सम्बन्धिना
  
  
  
   दिव्येन श्लाघ्येन धूपेन । निसर्गात् स्वभावात् । चलितः, प्रसृतः, रश्मीनां
  
  
  
   किरणानां या माला, तस्याः कलापो यस्य स तथाभूतेन । रत्नमेव दीपः, तेन च ।
  
  
  
   आराध्य प्रसेव्य । साङ्गाय दुर्गागणपत्याचद्यङ्गदेवतासहिताय । यद्वा अङ्गैः पञ्च-
  
  
  
  मुखनीलग्रीवदशभुजादिलक्षणैरवयव वैस्सहिताय । सायुधाय आयुधै:धैः त्रिशूलपरशु-
  
  
  
  टक्ङ्कादिभिस्सहिताय । सावरणाय आवरणैर्धर्मज्ञानवैराग्यैश्वर्यादिलक्षणावरणदैवतैः
  
  
  
  
  
  
  
  सहिताय । साभरणाय आभरणैश्चन्द्रावतंसशेष कुण्डलवासुकिकङ्कणादिलक्षणैः
  
  
  
   सहिताय । परमेश्वरायेति शेष:षः । सद्य:यः तत्कालं, समाहृतमानीतं, निष्पीडितं
  
  
  
   यद्राकेन्दुमण्डलं, तस्मान्निष्यन्दमानानि निम्सरन्ति, अपर्युषितानि नूतनानि, अमृतानि
  
  
  
   पीयूषाणि, निवेद्य निवेदनां कृत्वा । समर्प्येत्यर्थः । प्रदक्षिणीकृत्य प्रदक्षिणं
  
  
  
   कृत्वा । प्रणिपत्य नमस्कारं कृत्वा । पञ्चभि:भिः प्रसूनाञ्जलिभिः पञ्चसङ्ख्याकैः
  
  
  
   पुष्पाञ्जलिभिरित्यर्थः । प्रसाद्य क्षमापयित्वेत्यर्थः । "आवाहनं न जानामि न जानामि
  
  
  
  
  
  
  
  विसर्जनम्। पूजाविधिं न जानामि क्षमस्व परमेश्वर " इति रीत्येति भावः । श्रुति-
  
  
  
  शिरोभिरुपनिषद्भिः, स्तुत्वा स्तुतिं कृत्वा । विसर्जनमुद्रासनं, कृत्वा । अथ विसर्ज-
  
  
  
  नानन्तरं, आत्मनि स्वस्मिन्, चिरन्तनं परमेश्वरम्, आगत्य स्थितं, स्मृत्वा ध्यात्वा ।
  
  
  
   विलासार्थं वीथ्यां, विहारः सञ्चारः, भ्रमणमिति यावत् । "विहारो भ्रमणे स्कन्दे
  
  
  
   
  
  
  
  3.
  
  
  
   
  
  
  
  [^३] "विकच" इति मूल पाठ:ठः, "विकसित" इति व्याख्यातृपाठः । गाङ्गेयपदं
  
  
  
   द्वधर्षव्यर्थकम्, गजोत्पङ्गोत्पन्नसुवर्णरूपार्थभेदात् ॥
  
  
  
   
  
  
  
  ..