2023-06-05 16:39:39 by ambuda-bot
This page has not been fully proofread.
૨૮
नीलकण्ठविजये सव्याख्याने
पङ्कजै: आराध्य सुरभिघृतधारानुबन्धिना दिव्यधूपेन, निसर्गचलितर-
श्मिमालाकलापेन रत्नदीपेन च, साङ्गाय सायुधाय सावरणाय साभ-
रणाय च निवेद्य सद्यस्स माह तनिष्पीडितेन्दु मण्डल निष्यन्द मानापर्युषि-
तान्यमृतानि, प्रदक्षिणीकृत्य, प्रणिपत्य, प्रसाद्य पञ्चभि: प्रसूनाञ्जलिभिः,
स्तुत्वा श्रुतिशिरोभिः कृत्वा विसर्जनं, अथ स्मृत्वा चिरन्तनमात्मनि,
विलासवीथी विहार
कौतूहलेन निर्गत्य बहिः, इतस्ततो निरन्तराळमिळदा-
शीर्वचोमुखरगीर्वाण मुनिसङ्घसङ्कुलं, अतिको मलाङ्गुळिदळाघातशोधित-
मृदङ्गनादभङ्गिभिरघरनिवेशितापनीतवेणुभिः असकृदास्फालिताकृष्ट-
श्रीगन्धेन अनुलिप्य लेपनं कृत्वा, गाङ्गेयानि गङ्गोत्पन्नानि, विकसितानि' गाङ्गेन्य-
पङ्कजानि सुवर्णपद्मानि । "तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्वुरं " इत्यमरः ।
तैरभ्यर्च्य पूजयित्वा । सुरभे: कामधेनोर्या वृतधारा, तदनुबन्धिना तत्सम्बन्धिना
दिव्येन श्लाघ्येन धूपेन । निसर्गात् स्वभावात् । चलितः, प्रसृतः, रश्मीनां
किरणानां या माला, तस्याः कलापो यस्य स तथाभूतेन । रत्नमेव दीपः, तेन च ।
आराध्य प्रसेव्य । साङ्गाय दुर्गागणपत्याचङ्गदेवतासहिताय । यद्वा अङ्गैः पञ्च-
मुखनीलग्रीवदशभुजादिलक्षणैरवयव सहिताय । सायुधाय आयुधै: त्रिशूलपरशु-
टक्कादिभिस्सहिताय । सावरणाय आवरणैर्धर्मज्ञानवैराग्यैश्वर्यादिलक्षणावरणदैवतैः
सहिताय । साभरणाय आभरणैश्चन्द्रावतंसशेष कुण्डलवासुकिकङ्कणादिलक्षणैः
सहिताय । परमेश्वरायेति शेष: । सद्य: तत्कालं, समाहृतमानीतं, निष्पीडितं
यद्राकेन्दुमण्डलं, तस्मान्निष्यन्दमानानि निम्सरन्ति, अपर्युषितानि नूतनानि, अमृतानि
पीयूषाणि, निवेद्य निवेदनां कृत्वा । समयेत्यर्थः । प्रदक्षिणीकृत्य प्रदक्षिणं
कृत्वा । प्रणिपत्य नमस्कारं कृत्वा । पञ्चभि: प्रसूनाञ्जलिभिः पञ्चसङ्ख्याकैः
पुष्पाञ्जलिभिरित्यर्थः । प्रसाद्य क्षमापयित्वेत्यर्थः । "आवाहनं न जानामि न जानामि
विसर्जनम्। पूजाविधिं न जानामि क्षमस्व परमेश्वर " इति रीत्येति भावः । श्रुति-
शिरोभिरुपनिषद्भिः, स्तुत्वा स्तुतिं कृत्वा । विसर्जनमुद्रासनं, कृत्वा । अथ विसर्ज-
नानन्तरं, आत्मनि स्वस्मिन्, चिरन्तनं परमेश्वरम्, आगत्य स्थितं, स्मृत्वा ध्यात्वा ।
विलासार्थं वीथ्यां, विहारः सञ्चारः, भ्रमणमिति यावत् । "विहारो भ्रमणे स्कन्दे
3. "विकच" इति मूल पाठ:, "विकसित" इति व्याख्यातृपाठः । गाङ्गेयपदं
द्वधर्षकम् गजोत्पनसुवर्णरूपार्थभेदात् ॥
..