2023-07-27 13:08:28 by Bharadwajraki
This page has been fully proofread twice.
दिव्यलिङ्गाकृति प्रतिष्ठाप्य चिन्तामणिमयं किमपि पारमेश्वरं लिङ्गं, अनुसन्धाय तत्र नखविलिखितशरच्चन्द्रचन्द्रिकासारसुन्दरं भगवन्तं मदनान्तकम्, अभिषिच्य दिव्यापगासलिलैः, अनुलिप्य रोहिणीरमणहरिणमदपङ्कानुषङ्गिणा हरिचन्दनेन, समभ्यर्च्य गाङ्गेयविकचगाङ्गेय-
[Ccommentary]
येन स तथोक्तः । स्नानाङ्गानि धर्मशास्त्रे -- "सङ्कल्पः सूक्तपठनं मार्जनं चाघमर्षणम्। देवादितर्पणं चैव पञ्चाङ्गं स्नानमुच्यते" इति । सिद्धचारणगन्धर्वैः देवयोनिविशेषैः, सेविते व्याप्ते, परिवृत इति यावत् । तस्या गङ्गायाः । सैकते पुलिने । दहराकाशः हृदयाकाशः । "अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः" इति [^१]श्रुतेः । तस्मिन् पूजितं मानसिकैरुपचारैरभ्यर्चितं, यद्दिव्यलिङ्गं, तस्य आकृतिराकार इव आकारो यस्य तत्तथोक्तम् ।
किमप्यनिर्वाच्यम् । चिन्तामणिमयं चिन्तामणिस्वरूपम् । "चिन्तामणौ शिवं ध्यात्वा सर्वान् कामानवाप्नुयात्" इति शास्त्रादिति भावः । पारमेश्वरं शैवं लिङ्गं, प्रतिष्ठाप्य मन्त्रपूर्वकं स्थापयित्वेत्यर्थः । तत्र लिङ्गे, नखविलिखितं नखचिह्नं, नखरेखेति यावत् । तादृशश्चासौ शरच्चन्द्रश्चेति शाकपार्थिवादित्वात् समासः । अतिकृश इति वा वक्र इति वा चन्द्र इत्यर्थः । तस्य चन्द्रिका ज्योत्स्ना, तस्या आसारः प्रसारः, प्रसरणमिति यावत् । तेन सुन्दरं दर्शनीयं, मदनस्य कामस्य, अन्तकं नाशकम् । भगवन्तं षड्गुणैश्वर्यसम्पन्नम्[^२] । भगवन्तमुमाकान्तमनुसन्धाय ध्यात्वा । दिव्यापगाया गङ्गायाः सलिलैरुदकैरभिषिच्य अभिषेकं कृत्वा । रोहिणीरमणश्चन्द्रः । तस्मिन् यो हरिणः मृगः, तस्य मदपङ्कं मदकर्दमं कस्तूरीति यावत् । यद्वा रोहिणीरमणः कर्पूरम् । "घनसारश्चन्द्रसंज्ञः" इत्यमरः । तत् हरिणमदः कस्तूरी च, तस्यानुषङ्गिणा सन्बन्धिना हरिचन्दनेन[^३]
[^१] छान्दोग्योपनिषदि अष्टमाध्याये दहरविद्याप्रकरणे इयं श्रुतिरादिमा ॥
[^२] "उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स
वाच्यो भगवानिति ॥" -- "ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा॥" -- इत्युक्तभगापरपर्यायषड्गुणवान् भगवान् । एते षड्गुणाः परमेश्वर एव नान्यत्रेति सप्रमाणहेतुकमवधारितं श्रीहरदत्ताचार्येण श्रुतिसूक्तिमालायाम् । विस्तृतं च श्रीमद्भिरप्पय्यदीक्षितेन्द्रैः शिवतत्वविवेके । तत् द्वयमनुसन्दधाति प्रकृतकविः
व्याख्याता च ॥
[^३] कस्तूरीकर्पूरमिश्रेणैव हरिचन्दनेन श्रीगन्धेन अभिषेकः, अनुलेपनं च परमेश्वरप्रियमिति भावः ॥
[