2023-07-08 05:56:11 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  प्रथमाश्वासः
  
  
  
   
  
  
  
  दिव्यलिङ्गाकृति प्रतिष्ठाप्य चिन्तामणिमयं किमपि पारमेश्वरं लिङ्गं,
  
  
  
   अनुसन्धाय तत्र नखविलिखित शरच्चन्द्र चन्द्रिका सारसुन्दरं भगवन्तं
  
  
  
   मदनान्तकम्, अभिषिच्य दिव्यापगासलिलै:लैः, अनुलिप्य रोहिणीरमण-
  
  
  
  हरिणमदपङ्कानुषङ्गिणा हरिचन्दनेन, समभ्यर्च्य गाङ्गेयविकचगाङ्गेय-
  
  
  
  
  
  
  
   
  
  
  
  [Commentary]
  
  
  
   
  
  
  
  येन स तथोक्तः । स्नानाङ्गानि धर्मशास्त्रे –-- "सङ्कल्प:पः सूक्तपठनं मार्जनं
  
  
  
   चाघमर्षणम्। देवादितर्पणं चैव पञ्चाङ्गं स्नानमुच्यते" इति । सिद्धचारणगन्धर्वैः
  
  
  
   देवयोनिविशेषैः, सेविते व्याप्ते, परिवृत इति यावत् । तस्या गङ्गायाः । सैकते
  
  
  
   पुलिने । दहराकाश:शः हृदयाकाशः । "अथ यदिदमस्मिन् ब्रह्मपुरे दहरं
  
  
  
   पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाश: शः" इति '[^१]श्रुतेः । तस्मिन् पूजितं
  
  
  
   मानसिकैरुपचारैरभ्यर्चिततं, यद्दिव्यलिङ्गं, तस्य आकृतिराकार इव आकारो यस्य
  
  
  
   तत्तथोक्तम् ।
  
  
  
  
  
  
  
  किमप्यनिर्वाच्यम् । चिन्तामणिमयं चिन्तामणिस्वरूपम् ।
  
  
  
   "चिन्तामणौ शिवं ध्यात्वा सर्वान् कामानवाप्नुयात्" इति शास्त्रादिति भावः ।
  
  
  
   पारमेश्वरं शैवं लिङ्गगं, प्रतिष्ठाप्य मन्त्रपूर्वकं स्थापयित्वेत्यर्थः । तत्र लिङ्गे,
  
  
  
   नखविलिखिततं नखचिह्नं, नखरेखेति यावत् । तादृशश्वाचासौ शरच्चन्द्रश्चेति शाक-
  
  
  
  पार्थिवादित्वात् समासः । अतिकृश इति वा वक्र इति वा चन्द्र इत्यर्थः । तस्य
  
  
  
   चन्द्रिका ज्योत्स्ना, तस्या आसार:रः प्रसारः, प्रसरणमिति यावत् । तेन सुन्दरं दर्शनीयं,
  
  
  
   मदनस्य कामस्य, अन्तकं नाशकम् । भगवन्तं षड्गुणैश्वर्य सम्पन्नम्[^२] । भगव-
  
  
  
  न्तमुमाकान्तमनुसन्धाय ध्यात्वा । दिव्यापगाया गङ्गायाः सलिलैरुदकैर भिषिच्य
  
  
  
   अभिषेकं कृत्वा । रोहिणीरमणश्चन्द्रः । तस्मिन् यो हरिण :णः मृगः, तस्य मदपक
  
  
  
  ङ्कं मदकर्दमं कस्तूरीति यावत् । यद्वा रोहिणीरमणः कर्पूरम् । "घनसारश्चन्द्रसंज्ञ: ञः"
  
  
  
   इत्यमरः । तत् हरिणमदः कस्तूरी च, तस्यानुषङ्गिणा सन्बन्धिना हरिचन्दनेन
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^३]
  
  
  
   
  
  
  
  [^१] छान्दोग्योपनिषदि अष्टमाध्याये दहरविद्याप्रकरणे इयं श्रुतिरादिमा ॥
  
  
  
  2.
  
  
  
  [^२] " उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स
  
  
  
  बा
  
  
  
  वाच्यो भगवानिति ॥ " –-- " ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययो-
  
  
  
  श्चैव षण्णां भग इतीरणा॥" -- इत्युक्तभगापर पर्यायषड्गुणवान् भगवान् । एते षड्गुणाः
  
  
  
   परमेश्वर एव नान्यत्रेति सप्रमाण हेतुकमवधारितं श्रीहरदत्ताचार्येण श्रुतिसूक्तिमालायाम् ।
  
  
  
   विस्तृतं च श्रीमद्भिरप्पय्यदीक्षितेन्द्रैः शिवतत्वविवेके । तत् द्वयमनुसन्दधाति प्रकृतकविः
  
  
  
  ब्
  
  
  
  व्याख्याता च ॥
  
  
  
   
  
  
  
  3.
  
  
  
  [^३] कस्तूरीकर्पूरमिश्रेणैव हरिचन्दनेन श्रीगन्धेन अभिषेकः, अनुलेपनं च
  
  
  
   परमेश्वर प्रिय मिति भावः ॥