2023-06-05 16:39:39 by ambuda-bot
This page has not been fully proofread.
प्रथमाश्वासः
दिव्यलिङ्गाकृति प्रतिष्ठाप्य चिन्तामणिमयं किमपि पारमेश्वरं लिङ्गं,
अनुसन्धाय तत्र नखविलिखित शरच्चन्द्र चन्द्रिका सारसुन्दरं भगवन्तं
मदनान्तकम्, अभिषिच्य दिव्यापगासलिलै:, अनुलिप्य रोहिणीरमण-
हरिणमदपङ्कानुषङ्गिणा हरिचन्दनेन, समभ्यर्च्य गाङ्गेयविकचगाङ्गेय-
येन स तथोक्तः । स्नानाङ्गानि धर्मशास्त्रे – "सङ्कल्प: सूक्तपठनं मार्जनं
चाघमर्षणम्। देवादितर्पणं चैव पञ्चाङ्गं स्नानमुच्यते" इति । सिद्धचारणगन्धर्वैः
देवयोनिविशेषैः, सेविते व्याप्ते, परिवृत इति यावत् । तस्या गङ्गायाः । सैकते
पुलिने । दहराकाश: हृदयाकाशः । "अथ यदिदमस्मिन् ब्रह्मपुरे दहरं
पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाश: " इति 'श्रुतेः । तस्मिन् पूजितं
मानसिकैरुपचारैरभ्यर्चित, यद्दिव्यलिङ्गं, तस्य आकृतिराकार इव आकारो यस्य
तत्तथोक्तम् ।
किमप्यनिर्वाच्यम् । चिन्तामणिमयं चिन्तामणिस्वरूपम् ।
"चिन्तामणौ शिवं ध्यात्वा सर्वान् कामानवाप्नुयात्" इति शास्त्रादिति भावः ।
पारमेश्वरं शैवं लिङ्ग, प्रतिष्ठाप्य मन्त्रपूर्वकं स्थापयित्वेत्यर्थः । तत्र लिङ्गे,
नखविलिखित नखचिह्नं, नखरेखेति यावत् । तादृशश्वासौ शरच्चन्द्रश्चेति शाक-
पार्थिवादित्वात् समासः । अतिकृश इति वा वक्र इति वा चन्द्र इत्यर्थः । तस्य
चन्द्रिका ज्योत्स्ना, तस्या आसार: प्रसारः, प्रसरणमिति यावत् । तेन सुन्दरं दर्शनीयं,
मदनस्य कामस्य, अन्तकं नाशकम् । भगवन्तं षड्गुणैश्वर्य सम्पन्नम्। भगव-
न्तमुमाकान्तमनुसन्धाय ध्यात्वा । दिव्यापगाया गङ्गायाः सलिलैरुदकैर भिषिच्य
अभिषेकं कृत्वा । रोहिणीरमणश्चन्द्रः । तस्मिन् यो हरिण : मृगः, तस्य मदपक
मदकर्दमं कस्तूरीति यावत् । यद्वा रोहिणीरमणः कर्पूरम् । "घनसारश्चन्द्रसंज्ञ: "
इत्यमरः । तत् हरिणमदः कस्तूरी च, तस्यानुषङ्गिणा सन्बन्धिना हरिचन्दनेन
1.
छान्दोग्योपनिषदि अष्टमाध्याये दहरवियाप्रकरणे इयं श्रुतिरादिमा ॥
2. " उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स
बाच्यो भगवानिति ॥ " – " ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययो-
श्चैव षण्णां भग इतीरणा॥" - इत्युक्तभगापर पर्यायषड्गुणवान् भगवान् । एते षड्गुणाः
परमेश्वर एव नान्यत्रेति सप्रमाण हेतुकमवधारितं श्रीहरदत्ताचार्येण श्रुतिसूक्तिमालायाम् ।
विस्तृतं च श्रीमद्भिरप्पय्यदीक्षितेन्द्रैः शिवतत्वविवेके । तत् द्वयमनुसन्दधाति प्रकृतकविः
ब्याख्याता च ॥
3. कस्तूरीकर्पूरमिश्रेणैव हरिचन्दनेन श्रीगन्धेन अभिषेकः, अनुलेपनं च
परमेश्वर प्रिय मिति भावः ॥