This page has been fully proofread twice.

विविधविद्याधरीविलासपिशुनकुसुमशयनीयलोभनीयलतामन्दिरनिरन्तरोपान्तभुवं अधःपरिवर्तमानविकर्तनविम्बनिरर्गळनिर्गळदूर्ध्वमुखमयूखसंसर्गकदुष्णीकृतान्तरां, उपर्युपरि शीतलां, भूतलासंस्पर्शेऽपि पुराणपुरुषचरणारविन्दसम्बन्धादेव भुवनपावनीममरधुनीं, निर्वर्तितनियमाभिषेचनः, सिद्धचारणगन्धर्वसेविते सैकते तस्याः, दहराकाशपरिपूजित-
 
[Ccommentary]
 
विविधा अनेकविधाश्च ता विद्याधर्यश्च तासां, विलासः केळिः, तस्य पिशुनं सूचकम् । "पिशुनौ खलसूचकौ" इत्यमरः । बोधक इति यावत् । यत्कुसुमशयनीयं, तेन लोभनीयानि स्पृहणीयानि। "लुभ गार्ध्ये[^१]" इति धातोः "तव्यत्तव्यानीयरः" (४.१.९६) इत्यनीयर्प्रत्ययः । यानि लतामन्दिराणि लतासदनानि, तैः निरन्तरा निरवकाशा 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये' इत्यमरः । उपान्तभूः समीपभूमियस्यास्ताम् । अधः अधः प्रदेशे । परिवर्तमानं सञ्चरणशीलं, यद्विकर्तनबिम्बं सूर्यमण्डलम् । "विकर्तनार्कमार्ताण्ड" इत्यमरः । तस्मान्निरर्गळं निर्निरोधं यथा तथा। "अबाधं तु
निरर्गलम्" इत्यमरः। निर्गलन्तः निर्गच्छन्तः, ऊर्ध्वमुखाः[^२] ऊर्ध्वप्रसारिणो, ये मयूखाः किरणाः । "किरणोस्रमयूख" इत्यमरः । तेषां संसर्गः संबन्धः, तेन [^३]कदुष्णीकृतं ईषदुष्णीकृतम् । "मन्दोष्णं कदुष्णं त्रिषु तद्वति" इत्यमरः । अन्तरमभ्यन्तरं यस्याः सा ताम् । उपर्युपरि ऊर्ध्वमूर्ध्वं, शीतलां शीतस्पर्शवतीं, भूतलस्य भूतलेन वा असंस्पर्श असंबन्धेऽपि, भूतलसंबन्धराहित्येऽपीति यावत् । पुराणपुरुषस्य नारायणस्य । चरणारविन्दयोः पादकमलयोः, संबन्धादेव सम्पर्कादेव । भुवनस्य
लोकस्य । पावनीं शोधिनीं पावयित्रीमित्यर्थः । अमरधुनीं देवगङ्गां, आसाद्य प्राप्य । निर्वर्तितः कृतः पञ्चाङ्गानुष्ठानलक्षणनियमपूर्वकः, अभिषेकः अवगाहः
 
[^१] अयं धातुः "लुभ गार्ध्ये" - इति दिवादौ अन्ते त्रिंशत्तमः । भ्वादेरवृत्कृतत्वाल्लोभतीत्यपि साधुः । भ्वादिराकृतिगण इत्याहुः । "लुभ विमोहने" इत्यन्यो धातुः तौदादिकः आकुलीकरणार्थकः, "अथ परस्मैपदिनः" -- इत्यारभ्य पठितः चतुर्दशः ॥
[^२] "सप्तर्षिहस्तापचितान्यशेषाण्यधो विवस्वान् परिवर्तमानः । पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखैः ॥" ( १-१६ ) इति महाकविः कालिदासोऽप्याह कुमारसंभवे
प्रथमसर्गे हिमालयवर्णनप्रस्तावे ॥
[^३] "कवं चोष्णे" (पा. सू. ६.३,१०७) इति सूत्रेण ईषदर्थककुशब्दस्य कवं, का, कत् इति त्रयः आदेशाः विधीयन्ते ॥ "कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति" इति चाहामरसिंहः ॥