2023-07-08 05:42:45 by Bharadwajraki
This page has been fully proofread once and needs a second look.
नीलकण्ठविजये सव्याख्याने
विविधविद्याधरी विलास पिशुन कुसुम शयनीयलोभनीयलता मन्दिर निरन्त-
निरन्तरोपान्तभुवं अध:धःपरिवर्तमान विकर्तन विम्बनिरर्गळ निर्गळदूर्ध्वमुखमयूख-
संसर्गक
दुष्णीकृतान्तरां, उपर्युपरि शीतलां, भूतला संस्पर्शेऽपि पुराणपुरुष-
चरणारविन्दसम्बन्धादेव भुवनपावनीममरधुननीं, निर्वर्तितनियमाभिषे-
चनः, सिद्धचारण गन्धर्वसेविते सैकते तस्याः, दहराकाशपरिपूजित-
२६
[Commentary]
विविधा अनेकविधाश्च ता विद्याधर्यश्च तासां, विलासः केळि:ळिः, तस्य पिशुनं सूचकम् ।
"पिशुनौ खलसूचकौ " इत्यमरः । बोधक इति यावत् । यत्कुसुमशयनीयं, तेन
लोभनीयानि स्पृहणीयानि। "लुभ गार्घ्य "ध्ये[^१]" इति धातो:तोः "तव्यत्तव्यानीयर:''रः" (4-1-96४.१.९६)
इत्यनीयरूर्प्रत्ययः । यानि लतामन्दिराणि लतासदनानि, तैः निरन्तरा निरवकाशा
'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये' इत्यमरः । उपान्तभूः समीपभूमियस्या-
स्ताम् । अध: अध:धः अधः प्रदेशे । परिवर्तमानं सञ्चरणशीलं, यद्विकर्तनबिम्बं सूर्यमण्डलम् ।
"विकर्तनार्कमार्ताण्ड" इत्यमरः । तस्मान्निरर्गळं निर्निरोधं यथा तथा। "अबाधं तु
निरर्गलम्" इत्यमरः। निर्गलन्तः निर्गच्छन्तः, ऊर्ध्वमुखा: 2खाः[^२] ऊर्ध्वप्रस।सारिणो, ये मयूखाः
किरणाः । "किरणोस्रमयूख" इत्यमरः । तेषां संसर्गः संबन्धः, तेन '[^३]कदुष्णीकृतं
ईषदुष्णीकृतम् । "मन्दोष्णं कदुष्णं त्रिषु तद्वति" इत्यमरः । अन्तरमभ्यन्तरं
यस्याः सा ताम् । उपर्युपरि ऊर्ध्वमूर्ध्ववं, शीतलां शीतस्पर्शवतीं, भूतलस्य भूतलेन
वा असंस्पर्श असंबन्धेऽपि, भूतलसंबन्धराहित्येऽपीति यावत् । पुराणपुरुषस्य
नारायणस्य । चरणारविन्दयोः पादकमलयोः, संबन्धादेव सम्पर्कादेव । भुवनस्य
लोकस्य । पावनीं शोधिनीं पावयित्रीमित्यर्थः । अमरधुननीं देवगङ्गां, आसाद्य
प्राप्य । निर्वर्तितः कृतः पञ्चाङ्गानुष्ठानलक्षणनियमपूर्वकः, अभिषेक:कः अवगाहः
"
1.
[^१] अयं धातुः "लुभ गार्ध्ये" - इति दिवादौ अन्ते त्रिंशत्तमः । भ्वादेरवृत्कृतत्वात्
ल्लोभतीत्यपि साधुः । भ्वादिराकृतिगण इत्याहुः । " लुभ विमोहने" इत्यन्यो धातुः
तौदादिकः आकुलीकरणार्थकः, "अथ परस्मैपदिन: " –नः" -- इत्यारभ्य पठितः चतुर्दशः ॥
2.
[^२] "सप्तर्षिहस्तापचितान्य शेषाण्यधो विवस्वान् परिवर्तमानः । पद्मानि यस्याग्रसरोरु-
हाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखैः ॥ " ( 1 16१-१६ ) इति महाकविः कालिदासोऽप्याह कुमारसंभवे
प्रथमसर्गे हिमालयवर्णन प्रस्तावे ॥
3. "
[^३] "कवं चोष्णे" (पा. सू. 6-3-107६.३,१०७) इति सूत्रेण ईषदर्थक कुशब्दस्य कवं, का,
कत् इति त्रयः आदेशाः विधीयन्ते ॥ " कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति" इति
चाहामरसिंहः ॥