2023-06-05 16:39:39 by ambuda-bot
This page has not been fully proofread.
नीलकण्ठविजये सव्याख्याने
विविधविद्याधरी विलास पिशुन कुसुम शयनीयलोभनीयलता मन्दिर निरन्त-
रोपान्तभुवं अध:परिवर्तमान विकर्तन विम्बनिरर्गळ निर्गळदूर्ध्वमुखमयूख-
संसर्गक
दुष्णीकृतान्तरां, उपर्युपरि शीतलां, भूतला संस्पर्शेऽपि पुराणपुरुष-
चरणारविन्दसम्बन्धादेव भुवनपावनीममरधुन, निर्वर्तितनियमाभिषे-
चनः, सिद्धचारण गन्धर्वसेविते सैकते तस्याः, दहराकाशपरिपूजित-
२६
विविधा अनेकविधाश्च ता विद्याधर्यश्च तासां, विलासः केळि:, तस्य पिशुनं सूचकम् ।
"पिशुनौ खलसूचकौ " इत्यमरः । बोधक इति यावत् । यत्कुसुमशयनीयं तेन
लोभनीयानि स्पृहणीयानि। "लुभ गार्घ्य "" इति धातो: "तव्यत्तव्यानीयर:'' (4-1-96)
इत्यनीयरूप्रत्ययः । यानि लतामन्दिराणि लतासदनानि, तैः निरन्तरा निरवकाशा
'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये' इत्यमरः । उपान्तभूः समीपभूमियस्या-
स्ताम् । अध: अध: प्रदेशे। परिवर्तमानं सञ्चरणशीलं, यद्विकर्तनबिम्बं सूर्यमण्डलम् ।
"विकर्तनार्कमार्ताण्ड" इत्यमरः । तस्मान्निरगळं निर्निरोधं यथा तथा। "अबाधं तु
निरर्गलम्" इत्यमरः। निर्गलन्तः निर्गच्छन्तः, ऊर्ध्वमुखा: 2 ऊर्ध्वप्रस।रिणो, ये मयूखाः
किरणाः । "किरणोस्रमयूख" इत्यमरः । तेषां संसर्गः संबन्धः, तेन 'कदुष्णीकृतं
ईषदुष्णीकृतम् । "मन्दोष्णं कदुष्णं त्रिषु तद्वति" इत्यमरः । अन्तरमभ्यन्तरं
यस्याः सा ताम् । उपर्युपरि ऊर्ध्वमूर्ध्व, शीतलां शीतस्पर्शवतीं, भूतलस्य भूतलेन
वा असंस्पर्श असंबन्धेऽपि, भूतलसंबन्धराहित्येऽपीति यावत् । पुराणपुरुषस्य
नारायणस्य । चरणारविन्दयोः पादकमलयोः, संबन्धादेव सम्पर्कादेव । भुवनस्य
लोकस्य । पावनीं शोधिनीं पावयित्रीमित्यर्थः । अमरधुन देवगङ्गां आसाद्य
प्राप्य । निर्वर्तितः कृतः पञ्चाङ्गानुष्ठानलक्षणनियमपूर्वकः, अभिषेक: अवगाहः
"
1. अयं धातुः "लुभ गाये" - इति दिवादौ अन्ते त्रिंशत्तमः । भ्वादेरवृत्कृतत्वात्
लोभतीत्यपि साधुः । भ्वादिराकृतिगण इत्याहुः । " लुभ विमोहने" इत्यन्यो धातुः
तौदादिकः आकुलीकरणार्थकः, "अथ परस्मैपदिन: " – इत्यारभ्य पठितः चतुर्दशः ॥
2. "सप्तर्षिहस्तापचितान्य शेषाण्यधो विवस्वान् परिवर्तमानः । पद्मानि यस्याग्रसरोरु-
हाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखैः ॥ " ( 1 16 ) इति महाकविः कालिदासोऽप्याह कुमारसंभवे
प्रथमसर्गे हिमालयवर्णन प्रस्तावे ॥
3. " कवं चोष्णे" (पा. सू. 6-3-107) इति सूत्रेण ईषदर्थक कुशब्दस्य कवं, का,
कत् इति त्रयः आदेशाः विधीयन्ते ॥ " कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति" इति
चाहामरसिंहः ॥