2023-07-27 13:07:34 by Bharadwajraki
This page has been fully proofread twice.
वक्तुं तत्पुरभोगभाग्यमखिलं तस्यैव नालं गुरुः
मच्चेतोगतमद्भुतं कथयितुं नालं ममैवोक्तयः ॥२१॥
स कदाचिदस्वप्नोऽध्याचार इति बोधितः प्रातरमरवैताळिकैः, आलोक्य निर्मलं पौलोमीकपोलदर्पणं, अभ्यर्च्य कामधेनुं, आसाद्य
[Ccommentary]
दिना समासः, 'सङ्ख्यापूर्वो द्विगुः' (पा.सू. २.१.५२) इति द्विगुसंज्ञा । "अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः" इति स्त्रीत्वे "द्विगोः" ( पा. सू. ४.१.२१) इति ङीप् । ऊर्जितमुत्कृष्टं, तत्पदमिन्द्रपदं, लब्धुं प्राप्तुं, नालं न पर्याप्तं, भवेदित्यर्थः । शतं मखा अपि तत्पदफलाननुगुणप्रयोजका इति भावः । तद्दयिताजनं इन्द्र-दयिताजनं, द्रष्टुं, तस्य इन्द्रस्य, दृशां दृष्टीनां, दशशत्येव । [^१]पूर्ववत्समासङीपौ
दश शतानीत्यर्थः । अलं पर्याप्तम् । 'अलं भूषणपर्याप्ति' इत्यभिधानात् । न भवेत् न स्यात्, अखिलं समस्तं, [^२]तत्पदे इन्द्रपदे, भोगाः सुखसाधनाः विषयाः, तेषां, भाग्यं भोगप्रापकादृष्टम् । "शाकपार्थिवादित्वात्" समासः । वक्तुं कथयितुम् । तस्येन्द्रस्य । गुरुरेव बृहस्पतिरपि । नालं न शक्तः । मम कवेः, चेतोगतं मनोगतं, अद्भुतमाश्चर्यम् । "विस्मयोऽद्भुतमाश्चर्यम्" इत्यमरः । कथयितुं मम उक्तयः एव वचांस्येव । नालं न पर्याप्ता भवेयुरित्यर्थः । अत्र शतमख्या
इन्द्रपदप्रयोजकत्वादिसम्बन्धेऽप्यसम्बन्धोक्तेरतिशयोक्तिः । "योगेऽप्ययोगे सम्बन्धातिशयोक्तिः" इति लक्षणात् । तादृशविषयसमृद्धिसम्पन्नोऽपि देवेन्द्रः, शिष्टाचारमवलम्ब्य स्नानेश्वरोपासनादिकं कुर्वन्नास्त इत्याह ॥ स इति ॥ कदाचित् एकदा । अस्वप्नोऽपि स्वापरहितोऽपि । निर्निमेषत्वादिति भावः । स इन्द्रः, प्रातः उषःकाले, आचार इति राज्ञां प्रातरुत्थाने सम्प्रदाय इति, अमरवैताळिकैरमरमागघैः, बोधितः उत्थापितः । स्तुतिभिरिति शेषः । निर्मलं विमलं, पौलोम्याः
शच्याः, कपोल एव दर्पणः मुकुरः, तमालोक्य अवलोक्य । "रोचनं चन्दनं हेम मृदङ्गमणिदर्पणान् । गामग्निं चैव सूर्यं च प्रातः पश्येत् सदा बुधः ॥ "इति शास्त्रादिति भावः । कामधेनुमभ्यर्च्य पूजयित्वा । प्रदक्षिणीकृत्येति यावत् ।
[^१] पूर्ववत्-शतमखीपद इव, तद्धितार्थेति समाहारद्विगुः, अकारान्तेति स्त्रीत्वे द्विगोरिति ङीप् इत्यर्थः ॥
[^२] "तत्पुर" इति मूलपाठः "तत्पद" -- इति व्याख्यापाठः ।

[