2023-07-08 05:24:34 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  प्रथमाश्वासः
  
  
  
   
  
  
  
  २५
  
  
  
   
  
  
  
  वक्तुं तत्पुरभोगभाग्यमखिलं तस्यैव नालं गुरुः
  
  
  
  
  
  
  
  मच्चेतोगतमद्भुतं कथयितुं नालं ममैवोक्तयः ॥२१॥
  
  
  
  
  
  
  
   
  
  
  
  स कदाचिदस्वमोप्नोऽध्याचार इति बोधितः प्रातरमरवैताळिकैः,
  
  
  
   आलोक्य निर्मलं पौलोमीकपोलदर्पणं, अभ्यर्च्य कामधेनुं, आसाद्य
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  दिना समास:सः, 'सङ्ख्यापूर्वो द्विगु:गुः' (पा.सू. 2-1-52२.१.५२) इति द्विगुसंज्ञा । "अका-
  
  
  
  रान्तोत्तरपदो द्विगुः स्त्रियामिष्ट: टः" इति स्त्रीत्वे "द्विगो: " ( पा. सू. 4-1-21४.१.२१)
  
  
  
   इति ङीप् । ऊर्जितमुत्कृष्टं, तत्पदमिन्द्रपदं, लब्धुं प्राप्तुं, नालं न पर्याप्तं, भवेदि-
  
  
  
  त्यर्थः । शतं मखा अपि तत्पदफलाननुगुणप्रयोजका इति भावः । तद्दयिताजनं
  
  
  
   इन्द्र- दयिताजनं, द्रष्टुं, तस्य इन्द्रस्य, दृशां दृष्टीनां, दशशत्येव । '[^१]पूर्ववत्समासङीपौ
  
  
  
  
  
  
  
  दश शतानीत्यर्थः । अलं पर्याप्तम् । 'अलं भूषणपर्याप्ति' इत्यभिधानात् । न
  
  
  
   भवेत् न स्यात्, अखिलं समस्तं, [^२]तत्पदे इन्द्रपदे, भोगाः सुखसाधनाः विषयाः,
  
  
  
   तेषां, भाग्यं भोगप्रापकादृष्टम् । " शाकपार्थिवादित्वात्" समासः । वक्तुं
  
  
  
   कथयितुम् । तस्येन्द्रस्य । गुरुरेव बृहस्पतिरपि । नालं न शक्तः । मम कवेः,
  
  
  
   चेतोगतं मनोगतं, अद्भुतमाश्चर्यम् । "विस्मयोऽद्भुतमाश्चर्यम्" इत्यमरः । कथयितुं
  
  
  
   मम उक्त एव वचांस्येव । नालं न पर्याप्ता भवेयुरित्यर्थः । अत्र शतमख्या
  
  
  
  
  
  
  
  इन्द्रपदप्रयोजकत्वाद्रिदिसम्बन्धेऽप्यसम्बन्धोक्तेर तिशयोक्ति:तिः । "योगेऽप्ययोगे सम्बन्धा-
  
  
  
  तिशयोक्तिः" इति लक्षणात् । तादृशविषयसमृद्धिसम्पन्नोऽपि देवेन्द्रः, शिष्टा-
  
  
  
  चारमवलम्ब्य स्नानेश्वरोपासनादिकं कुर्वन्नास्त इत्याह ॥ स इति ॥ कदाचित्
  
  
  
  ए कदा । अस्वप्नोऽपि स्वापरहितोऽपि । निर्निमेषत्वादिति भावः । स इन्द्रः, प्रातः
  
  
  
   उष:षःकाले, आचार इति राज्ञां प्रातरुत्थाने सम्प्रदाय इति, अमरवैताळिकैरमर-
  
  
  
  मागघैः, बोधितः उत्थापितः । स्तुतिभिरिति शेषः । निर्मलं विमलं, पौलोम्याः
  
  
  
  
  
  
  
  शच्यायाः, कपोल एव दर्पण:णः मुकुररः, तमालोक्य अवलोक्य । "रोचनं चन्दनं हेम
  
  
  
   मृदङ्गमणिदर्पणान् । गाममिंग्निं चैव सूर्यं च प्रातः पश्येत् सदा बुधः ॥" इति
  
  
  
   "इति शास्त्रादिति भावः । कामधेनुमभ्यर्च्य पूजयित्वा । प्रदक्षिणीकृत्येति यावत् ।
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] पूर्ववत्-शतमखीपद इव, तद्धितार्थेति समाहारद्विगु:गुः, अकारान्तेति स्त्रीत्वे
  
  
  
   द्विगोरिति ङीप् इत्यर्थः ॥
  
  
  
   
  
  
  
  2. " तत
  
  
  
  [^२] "तत्पुर" इति मूलपाठ: "तपद" ठः "तत्पद" -- इति व्याख्यापाठः ।
  
  
  
  N. V-4