2023-06-05 16:39:38 by ambuda-bot
This page has not been fully proofread.
प्रथमाश्वासः
२५
वक्तुं तत्पुरभोगभाग्यमखिलं तस्यैव नालं गुरुः
मच्चेतोगतमद्भुतं कथयितुं नालं ममैवोक्तयः ॥२१॥
स कदाचिदस्वमोऽध्याचार इति बोधितः प्रातरमरवैताळिकैः,
आलोक्य निर्मलं पौलोमीकपोलदर्पणं, अभ्यर्च्य कामधेनुं, आसाद्य
दिना समास:, 'सङ्ख्यापूर्वो द्विगु:' (पा.सू. 2-1-52) इति द्विगुसंज्ञा । "अका-
रान्तोत्तरपदो द्विगुः स्त्रियामिष्ट: " इति स्त्रीत्वे "द्विगो: " ( पा. सू. 4-1-21)
इति ङीप् । ऊर्जितमुत्कृष्टं, तत्पदमिन्द्रपदं, लब्धुं प्राप्तुं, नालं न पर्याप्तं, भवेदि-
त्यर्थः । शतं मखा अपि तत्पदफलाननुगुणप्रयोजका इति भावः । तद्दयिताजनं
इन्द्र- दयिताजनं, द्रष्टुं, तस्य इन्द्रस्य, दृशां दृष्टीनां, दशशत्येव । 'पूर्ववत्समासङीपौ
दश शतानीत्यर्थः । अलं पर्याप्तम् । 'अलं भूषणपर्याप्ति' इत्यभिधानात् । न
भवेत् न स्यात्, अखिलं समस्तं, तत्पदे इन्द्रपदे, भोगाः सुखसाधनाः विषयाः,
तेषां, भाग्यं भोगप्रापकादृष्टम् । " शाकपार्थिवादित्वात्" समासः । वक्तुं
कथयितुम् । तस्येन्द्रस्य । गुरुरेव बृहस्पतिरपि । नालं न शक्तः । मम कवेः,
चेतोगतं मनोगतं, अद्भुतमाश्चर्यम् । "विस्मयोऽद्भुतमाश्चर्यम्" इत्यमरः । कथयितुं
मम उक्त एव वचांस्येव । नालं न पर्याप्ता भवेयुरित्यर्थः । अत्र शतमख्या
इन्द्रपदप्रयोजकत्वाद्रिसम्बन्धेऽप्यसम्बन्धोक्तेर तिशयोक्ति: । "योगेऽप्ययोगे सम्बन्धा-
तिशयोक्तिः" इति लक्षणात् । तादृशविषयसमृद्धिसम्पन्नोऽपि देवेन्द्रः, शिष्टा-
चारमवलम्ब्य स्नानेश्वरोपासनादिकं कुर्वन्नास्त इत्याह ॥ स इति ॥ कदाचित्
एकदा । अस्वप्नोऽपि स्वापरहितोऽपि । निर्निमेषत्वादिति भावः । स इन्द्रः, प्रातः
उष:काले, आचार इति राज्ञां प्रातरुत्थाने सम्प्रदाय इति, अमरवैताळिकैरमर-
मागघैः, बोधितः उत्थापितः । स्तुतिभिरिति शेषः । निर्मलं विमलं, पौलोम्याः
शच्या, कपोल एव दर्पण: मुकुर, तमालोक्य अवलोक्य । "रोचनं चन्दनं हेम
मृदङ्गमणिदर्पणान् । गाममिं चैव सूर्यं च प्रातः पश्येत् सदा बुधः ॥" इति
शास्त्रादिति भावः । कामधेनुमभ्यर्च्य पूजयित्वा । प्रदक्षिणीकृत्येति यावत् ।
1. पूर्ववत्-शतमखीपद इव, तद्धितार्थेति समाहारद्विगु: अकारान्तेति स्त्रीत्वे
द्विगोरिति ङीप् इत्यर्थः ॥
2. " ततपुर" इति मूलपाठ: "तपद" - इति व्याख्यापाठः ।
N. V-4