2023-07-24 12:47:34 by Bharadwajraki
This page has been fully proofread twice.
विधातुं कर्माणि व्यवसितवती यत्पदफला-
न्यसूयान्धा मध्ये श्रुतिरपि किमासीद्भगवती ।
अनुष्ठेयं कर्म स्वयमनभिसन्धाय फलमि-
त्ययं वन्ध्यः पन्था यदनुपदमेव प्रकटितः ॥ २० ॥
किं बहुना ।
लब्धुं तत्पदमूर्जितं शतमखी तस्यैव नालं भवेत्
द्रष्टुं तद्दयिताजनं दशशती तस्यैव नालं दृशाम् ।
[commentary]
वस्तुजालमिति शेषः । लब्धुं प्राप्तुं क्षमम् । स पुरन्दरः अस्तीति योजना । इन्द्रस्यैवेतरेभ्योऽपि श्लाघ्यामूल्यविषयसम्पत्त्या उत्कृष्टो भोग इति भावः । स्वर्गं[^१] निरतिशयसुखास्पदं प्रापयितुमेव सकरुणा मातेव या श्रुतिर्हितमुपदिशन्ती सा श्रुतिरपीतरेषां स्वर्गसुखमसहमानेव पूर्वकाण्डे शतशः स्वर्गफलकानि कर्माणि विधायाप्युत्तरकाण्डे बहुधा कर्मफलत्यागमेव प्रकटयाञ्चकारेत्याह ॥ विधातुमिति ॥ यस्येन्द्रस्य पदं स्थानं, फलं उद्देश्यं, येषां तानि तथाभूतानि कर्माणि । विधातुं अनुष्ठापयितुम् । व्यवसितवती निश्चयवती । भगवती श्रुतिरपि, वेदोऽपि । मध्ये कानिचित्कर्माणि विधायान्तराळे, असूयया अनित्यत्वारोपेणेत्यर्थः । "असूया तु दोषारोपो गुणेष्वपि" इत्यमरः । अन्धा त्यक्ततत्कर्ममार्गा आसीत्किमित्युत्प्रेक्षा । यद्यस्मात्स्वर्गादिकं फलमनभिसन्धाय अनुद्दिश्य, यज्ञादिकर्म अनुष्ठेयं कर्तव्यमित्यनुपदं पुरत एवायं निष्कामो वन्ध्यः अफलः । "वन्ध्योऽफलोऽव केशी च" इत्यमरः । पन्था मार्गः । स्वयमित्यव्ययम् । स्वयं श्रुत्येत्यर्थः । "अर्वागामेवं स्वयमात्मना" इत्यमरः । प्रकटित प्रकटीकृतः स कदाचिदित्युत्तरेणान्वयः । तेन स्वर्गवासिनामानन्दः ब्रह्मानन्दातिशायीति व्यज्यत इति भावः । किं बहुना । ये तु पराननुग्रहीतुं समर्था इन्द्रगुर्वादयः तेऽपि यत्पदसौभाग्यं सम्पादयितुं द्रष्टुमन्ततः कथयितुं वा न शक्नुवन्ति तदनुग्रहाकाङ्क्षिभिरस्माभिस्तत्स्वर्गसौभाग्यवर्णनं कर्तुं कथं शक्यमित्याशयेनाह ॥ लब्धुमिति ॥ तस्येन्द्रस्य । एवकारो भिन्नक्रमः । शतमख्येव शतानां मखानां समाहारश्शतमखी। "तद्धितार्थे" (पा.सू. २.१.५१) इत्या-
[^१] "यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं यत् तत्सुखं स्वःपदास्पदम् ॥ इति स्वर्गलक्षणम् ॥