2023-06-05 16:39:37 by ambuda-bot
This page has not been fully proofread.
२४
किं
नीलकण्ठविजये सव्याख्याने
विधातुं कर्माणि व्यवसितवती यत्पदफला-
न्यसूयान्धा मध्ये श्रुतिरपि किमासीद्भगवती ।
अनुष्ठेयं कर्म स्वयमन भिसन्धाय फलमि-
त्ययं वन्ध्यः पन्था यदनुपदमेव प्रकटितः ॥ २० ॥
बहुना ।
लब्धुं तत्पदमूर्जितं शतमखी तस्यैव नालं भवेत्
द्रष्टुं तद्दयिताजनं दशशती तस्यैव नालं दृशाम् ।
वस्तुजालमिति शेषः । लब्धुं प्राप्तुं क्षमम् । स पुरन्दरः अस्तीति योजना ।
इन्द्रस्यैवेतरेभ्योऽपि श्लाघ्यामूल्यविषयसम्पत्त्या उत्कृष्टो भोग इति भावः । स्वर्ग
निरतिशयसुखास्पदं प्रापयितुमेव सकरुणा मातेव या श्रुतिर्हितमुपदिशन्ती सा
श्रुतिरपीतरेषां स्वर्गसुखमसहमानेव पूर्वकाण्डे शतश: स्वर्गफलकानि कर्माणि
विधायाप्युत्तरकाण्डे बहुधा कर्मफलत्यागमेव प्रकटयाञ्चकारेत्याह ॥ विधातु-
मिति ॥ यस्येन्द्रस्य पदं स्थानं, फलं उद्देश्यं, येषां तानि तथाभूतानि कर्माणि ।
विधातुं अनुष्ठापयितुम् । व्यवसितवती निश्चयवती । भगवती श्रुतिरपि, वेदोऽपि ।
मध्ये कानिचित्कर्माणि विधायान्तराळे, असूयया अनित्यत्वारोपेणेत्यर्थः । "असूया
तु दोषारोपो गुणेष्वपि " इत्यमरः । अन्धा त्यक्ततत्कर्ममार्गा आसीत्किमित्युत्प्रेक्षा ।
यद्य मात्स्वर्गादिकं फलमन भिसन्धाय अनुद्दिश्य, यज्ञादिकर्म अनुष्ठेयं कर्तव्यमित्य-
नुपदं पुरत एवायं निष्कामो वन्ध्यः अफलः । " वन्ध्योऽफलोऽव केशी च "
इत्यमरः । पन्था मार्गः । स्वयमित्यव्ययम् । स्वयं श्रुत्येत्यर्थः । " अर्वागामेवं
स्वयमात्मना " इत्यमरः । प्रकटित प्रकटीकृतः स कदाचिदित्युत्तरेणान्वयः । तेन
स्वर्गवासिनामानन्दः ब्रह्मानन्दातिशायीति व्यज्यत इति भावः । किं बहुना । ये
तु पराननुग्रहीतुं समर्था इन्द्रगुर्वादयः तेऽपि यत्पदसौभाग्यं सम्पादयितुं द्रष्टुमन्ततः
कथयितुं वा न शक्नुवन्ति तदनुग्रहाका क्षिभिरस्मा भिस्तत्स्वर्ग सौभाग्यवर्णनं कर्तुं कथं
शक्यमित्याशयेनाह ॥ लब्धु मिति ॥ तस्येन्द्रस्य । एवकारो भिन्नक्रमः । शतम-
ख्येव शतानां मखानां समाहारश्शतमखी। "तद्धितार्थे" (पा.सू. 2-1-51) इत्या-
66
-
1. "यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोनीतं यत् तत्सुखं
स्व:पदास्पदम् ॥ इति स्वर्गलक्षणम् ॥