2023-07-24 12:42:49 by Bharadwajraki
This page has been fully proofread twice.
श्लथे नीवीबन्धे सति रहसि यत्पाणिवलनात्
नवोढाः पाणिभ्यामपि पिहितसप्ताष्टनयनाः ।
सहस्रस्याप्यक्ष्णां युगपदपिधानाक्षमतया
पुनस्ताभ्यामेव स्वमपिदधते लोचनयुगम् ॥ १८ ॥
अपि च ।
लभ्यन्ते श्रुतिपाठशुष्कवदना विप्राः पदे वेधसो
वैकुण्ठे तुलसीवनानि सुलभान्यार्द्राणि शुष्काणि च ।
प्रेता भूतगणाश्च सन्ति शतशः स्थाने भवानीपतेः
रत्नान्यप्सरसः सुधेति तु पदे यस्यैव लब्धुं क्षमम् ॥१९॥
[commentary]
चातुर्यमाह ॥ श्लथेति ॥ रहसि एकान्ते । यस्येन्द्रस्य, पाण्योर्वलनात्सम्बन्धात् । यद्वा पाणिभ्यां वलनाद्विमोचनान्नीवीबन्धे वस्त्रग्रन्थौ श्लथे गलिते सति । या नवोढाः नायिकाः, पाणिभ्यामपि पिहितानि स्थगितानि, सप्ताष्ट च नयनानि यासां ताः तथाभूता आसन्निति शेषः । नवोढेति अपिदधे इत्येकवचनान्तोऽप्येकः पाठः । युगपदेकदा । अक्ष्णां सहस्रस्य अपिधानाक्षमतया, पुनस्ताभ्यां हस्ताभ्यां ताः, स्वमेव स्वीयमेव, लोचनयुगं अपिदधते आच्छादयन्ति । स पुरन्दरः अस्तीत्यन्वयः । स कदाचिदित्युत्तरेण वान्वयः । इन्द्रस्य अनेकनवोढानायिकासु समतयावस्थानाद्दक्षिणनायकत्वम् । 'तुल्योऽनेकत्र दक्षिणः' इति लक्षणात् । इन्द्रस्यैव ब्रह्मविष्णुरुद्रेभ्य उत्कृष्टो भोग इति कथयितुं तत्तल्लोकपदार्थेभ्यः श्लाघ्यानि वस्तून्यमरावत्यामेव सन्तीत्याह ॥ लभ्यन्त इति ॥ वेधसः ब्रह्मणः पदे
स्थाने सत्यलोके । "पदं व्यवसितत्राणस्थान" इत्याद्यमरः । श्रुतीनां वेदानां पाठेन, पूतानि पवित्राणि वदनानि येषां ते तथाभूता विप्रा लभ्यन्ते । वैकुण्ठे विष्णुलोके, आर्द्राणि द्रवसहितानि सरसानीति यावत् । शुष्काणि नीरसानि तुलसीवनानि, सुलभानि सुप्रापानि । भवानीपतेः रुद्रस्य स्थाने । शतशः
अनेके । "बह्वल्पार्थाच्छस्" (पा. सू. ५.४.५२) इति शस्प्रत्ययः । प्रेताः भूतानां प्रमथानां पिशाचानां वा गणाश्च सन्ति । यस्येन्द्रस्य । एवकारो भिन्नक्रमः । पद एव रत्नानि चिन्तामण्यादीनि, अप्सरसो रम्भादयः, सुघेति च