This page has not been fully proofread.

प्रथमाश्वासः
 
श्लथे नीवीबन्धे सति रहसि यत्पाणिवलनात्
 
नवोढाः पाणिभ्यामपि पिहितसप्ताष्टनयनाः ।
सहस्रस्याप्यक्ष्णां युगपदपिधानाक्षमतया
 
पुनस्ताभ्यामेव स्वमपिदधते लोचनयुगम् ॥ १८ ॥
 
२३
 
अपि च ।
 
लभ्यन्ते श्रुतिपाठशुष्कवदना विप्राः पदे वेधसो
वैकुण्ठे तुलसीवनानि सुलभान्यार्द्राणि शुष्काणि च ।
प्रेता भूतगणाश्च सन्ति शतशः स्थाने भवानीपतेः
रत्नान्यप्सरसः सुधेति तु पढ़े यस्यैव लब्धुं क्षमम् ॥१९॥
 
चातुर्यमाह ॥ श्लथेति ॥ रहसि एकान्ते । यस्येन्द्रस्य, पाण्योवलनात्सम्बन्धात् ।
यद्वा पाणिभ्यां वलनाद्विमोचनान्नीवीबन्धे वस्त्रग्रन्थौ थे गलिते सति । या
नवोढा : नायिकाः, पाणिभ्यामपि पिहितानि स्थगितानि, सप्ताष्ट च नयनानि
यासां ताः तथाभूता आसन्निति शेषः । नवोढेति अपिदधे इत्येकवचनान्तोऽप्येकः
पाठः । युगपदेकदा । अक्ष्णां सहस्रस्य अपिधानाक्षमतया, पुनस्ताभ्यां हस्ताभ्यां
ताः, स्वमेव स्वीयमेव, लोचनयुगं अपिदधते आच्छादयन्ति । स पुरन्दरः
अस्तीत्यन्वयः । स कदाचिदित्युत्तरेण वान्वयः । इन्द्रस्य अनेकनवोढानायिकासु
समतयावस्थानाद्दक्षिणन।यकत्वम् । 'तुल्योऽनेकत्र दक्षिण: ' इति लक्षणात् ।
इन्द्रस्यैव ब्रह्मविष्णुरुद्रेभ्य उत्कृष्टो भोग इति कथयितुं तत्तल्लोकपदार्थेभ्यः
श्लाघ्यानि वस्तून्यमरावत्यामेव सन्तीत्याह ॥ लभ्यन्त इति ॥ वेधसः ब्रह्मणः पदे
स्थाने सत्यलोके । "पदं व्यवसितत्राणस्थान " इत्याद्यमरः । श्रुतीनां वेदानां
पाठेन, पूतानि पवित्राणि वदनानि येषां ते तथाभूता विप्रा लभ्यन्ते ।
वैकुण्ठे विष्णुलोके, आर्द्राणि द्रवसहितानि सरसानीति यावत् । शुष्काणि
नीरसानि तुलसीवनानि, सुलभानि सुप्रापानि । भवानीपतेः रुद्रस्य स्थाने । शतशः
अनेके । "बह्वल्पार्थाच्छस् " (पा. सू. 5-4-52) इति शस्प्रत्ययः । प्रेताः
भूतानां प्रमथानां पिशाचानां वा गणाश्च सन्ति । यस्येन्द्रस्य । एवकारो
भिन्नक्रम: । पद एव रत्नानि चिन्तामण्यादीनि, अप्सरसो रम्भादयः, सुघेति च