This page has been fully proofread twice.

लोकनसफलीकृतसहस्रलोचनः, चतुर्मुखमुखवलयविहारिभारतीपरिगृहीतवैताळिकाधिकारः, पक्षपातासहिष्णुतयेव परिहृतशैलेन्द्रपक्षमण्डलः, चन्द्रचूडचरणारविन्दपरिचरणानन्दसाम्राज्यधुरन्धरः पुरन्दरो नाम ।
 
[Commentary]
 
तेषां निवर्णनं दर्शनं निध्यानं वा । "निर्वर्णनं तु निध्यानम्" इत्यमरः । तेन जनितः उत्पादितः, योऽमर्षः कोपः । "कोपक्रोधामर्षरोष" इत्यमरः । तस्य जल्पाकानि, वक्तॄणि। व्यक्तवाग्वाचकाज्जल्प[^१] धातोः "जल्पभिक्षकुट्टलुण्टवृङष्षाकन्" (पा.सू. ३.२.१५५) इति षाकन्प्रत्ययः । यानि निखिलदिक्पतीनां वदनानि, तेषां यदवलोकनं दर्शनं, तेन सफलीकृतानि सहस्रं लोचनानि सहस्रसङ्ख्याकानि नेत्राणि, यस्य स तथाभूतः । चतुर्मुखस्य ब्रह्मणो मुखवलयं मुखमण्डलं, तत्र विहारिणी विहरणशीला। विपूर्वाद्धरतेस्ताच्छीलिके णिनिप्रत्यये नान्तलक्षण[^२]डीप्प्रत्ययः । विहारिणी च सा भारती चेति विग्रहे "पुंवत्कर्मधारय" इति (पा. सू.
६.३.४२) पुंवद्भावे भवति विहारिभारतीति शब्दरूपं, तया त्रयीवाण्या, परिगृहीतः वैताळिकानां मागधानामधिकारो यस्य स तथाभूतः । "वैताळिका मागधाः स्युः" इत्यमरशेषः । पक्षपातस्य दुरभिमानस्य, असहिष्णुरक्षमता, तस्य भावस्तत्ता तयेव । अन्यत्र पक्षपातस्य पक्षाभ्यां गमनस्य, असहिष्णुः अतितिक्षुः । परिहृतं छिन्नं, शैलेन्द्राणां पक्षमण्डलं येन सः । चन्द्रचूडस्य चन्द्रशेखरस्य चरणारविन्दयोर्यत्परिचरणं पूजा, तेन यदानन्दसाम्राज्यं तस्य धुरन्धरः । धूरेव धुरा । "आपञ्चैव हलन्तानाम्" इति वचनाट्टाप्प्रत्ययः । तां धारयतीति धुरन्धरः । "संज्ञायां भृतृवृजि" (पा. सू. ३.२.४६) इत्यादिना खच्प्रत्ययः, "खचि ह्रस्व: " (पा. सू. ६.४.९४) इति ह्रस्वः, "अरुर्द्विषत्" (पा.सू. ६.३.६७)
इत्यादिना मुमागमः । आनन्दसाम्राज्यस्य धुरन्धरः । धूर्वहे धुर्यधौरेयधुरीणास्सधुरन्धराः" इत्यमरः । वोढेति यावत् । पुरन्दरो नाम प्रसिद्धो राजा अस्तीत्यन्वयः । इन्द्रस्य दक्षिणनायकत्वं स्फुटीकर्तुं तदीयानां "लज्जामन्मथमध्यस्था मध्यमोदितयौवना" इत्युक्तलक्षणानां मध्यमानां क्रीडाकालिक-
 
[^१] "जप, जल्प - व्यक्तायां वाचि" इत्ययं धातुः भौवादिकः अनुनासिकान्तानां प्राक् "अथ परस्मैपदिनः" इत्यारभ्याम्नातेषु एकचत्वारिंशद्धातुषु चतुर्थः धातुः ॥
[^२] "सुप्यजातौ णिनिस्तच्छील्ये" (पा. सू. ३.२.७८) इत्यनेन णिनिः । "ऋन्नेभ्यो ङीप्" (पा. सू. ४.१.५) इत्यनेन ङीप् इति विवेकः ॥