2023-07-07 11:07:24 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  २२
  
  
  
   
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  लोकनस फली कृत सहस्रलोचनः, चतुर्मुख मुखवलयविहारिभारती परिगृ
  
  
  
  हीतवैताळिकाधिकाररः, पक्षपातासहिष्णुतयेव परिहृत शैलेन्द्र पक्ष मण्डलः,
  
  
  
   चन्द्रचूडचरणारविन्दपरिचरणानन्दसाम्राज्यधुरन्धरः पुरन्दरो नाम ।
  
  
  
   
  
  
  
  "
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [Commentary]
  
  
  
   
  
  
  
  तेषां निवर्णननं दर्शनं निष्ध्यानं वा । "निर्वर्णनं तु निध्यानम्" इत्यमरः । तेन
  
  
  
   जनित:तः उत्पादितः, योऽमर्ष:षः कोप:पः । "कोपक्रोधामर्षरोष" इत्यमरः । तस्य
  
  
  
   जल्पाकानि, वक्तृतॄणि। व्यक्तवाग्वाचकाज्जल्प'[^१] धातोः' "जल्पभिक्षकुट्टलुण्टवृडङष्षाकन्"
  
  
  
   (पा.सू. 3-2-155३.२.१५५) इति षाकन्प्रत्ययः । यानि निखिलदिक्पतीनां वदनानि,
  
  
  
   तेषां यदवलोकनं दर्शननं, तेन सफलीकृतानि सहस्रं लोचनानि सहस्रसङ्ख्याकानि
  
  
  
   नेत्राणि, यस्य स तथाभूत:तः । चतुर्मुखस्य ब्रह्मणो मुखवलयं मुखमण्डलं, तत्र
  
  
  
   विहारिणी विहरणशीला। विपूर्वाद्धरतेस्ताच्छीलिके णिनिप्रत्यये नान्तलक्षण [^२]डीप्-
  
  
  
  प्रत्ययः । विहारिणी च सा भारती चेति विग्रहे "पुंबवत्कर्मधारय " इति (पा. सू.
  
  
  
  6-3-42
  
  
  
  ६.३.४२) पुंवद्भावे भवति विहारिभारतीति शब्दरूपं, तया त्रयीवाण्या, परिगृहीतः
  
  
  
   वैताळिकानां मागधानामधिकारो यस्य स तथाभूतः । "वैताळिका मागधाः स्युः"
  
  
  
   इत्यमरशेषः । पक्षपातस्य दुरभिमानस्य, असहिष्णुरक्षमता, तस्य भावस्तत्ता तयेव ।
  
  
  
   अन्यत्र पक्षपातस्य पक्षाभ्यां गमनस्य, असहिष्णुः अतितिक्षुः । परिहृतं छिन्नं,
  
  
  
   शैलेन्द्राणां पक्षमण्डलं येन सः । चन्द्रचूडस्य चन्द्रशेखरस्य चरणारविन्दयो-
  
  
  
  र्यत्परिचरणं पूजा, तेन यदानन्दसाम्राज्यं तस्य धुरन्धरः । धूरेव धुरा ।
  
  
  
   "आपञ्चैव हलन्तानाम्" इति वचनाट्टाप्प्रत्ययः । तां धारयतीति धुरन्धरः ।
  
  
  
   "संज्ञायां भृतृवृजि" (पा. सू. 3-2-46३.२.४६) इत्यादिना खच्प्रत्ययः, "खचि
  
  
  
   ह्रस्व: " (पा. सू. 6-4-94६.४.९४) इति ह्रस्वः, "अरुर्द्विषत्" (पा.सू. 6-3-67६.३.६७)
  
  
  
  
  
  
  
  इत्यादिना मुमागमः । आनन्दसाम्राज्यस्य धुरन्धरः । धूर्वहे धुर्यधौ-
  
  
  
  रेयधुरीणास्सधुरन्धराः" इत्यमरः । वोढेति यावत् । पुरन्दरो नाम प्रसिद्धो
  
  
  
   राजा अस्तीत्यन्वयः । इन्द्रस्य दक्षिणनायकत्वं स्फुटीकर्तुतुं तदीयानां "लज्जा-
  
  
  
  मन्मथमध्यस्था मध्यमोदितयौवना" इत्युक्तलक्षणानां मध्यमानां क्रीडाकालिक-
  
  
  
  "
  
  
  
   
  
  
  
  · 1.
  
  
  
   
  
  
  
  [^१] "जप, जल्प - व्यक्तायां वाचि" इत्ययं धातुः भौवादिक:कः अनुनासिकान्तानां
  
  
  
   प्राक् "अथ परस्मैपदिनः" इत्यारभ्याम्नातेषु एकचत्वारिंशद्धातुषु चतुर्थः धातुः ॥
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  2.
  
  
  
  [^२] "सुप्यजातौ णिनिस्तच्छील्ये" (पा. सू. 3-2-78३.२.७८) इत्यनेन णिनिः । '"ऋ
  
  
  
  न्नेभ्यो कीपूङीप्" (पा. सू. 4.1-5४.१.५) इत्यनेन ङीप् इति विवेकः ॥