This page has not been fully proofread.

२२
 
नीलकण्ठविजये सव्याख्याने
 
लोकनस फली कृत सहस्रलोचनः, चतुर्मुख मुखवलयविहारिभारती परिगृ
हीतवैताळिकाधिकार, पक्षपातासहिष्णुतयेव परिहृत शैलेन्द्र पक्ष मण्डलः,
चन्द्रचूडचरणारविन्दपरिचरणानन्दसाम्राज्यधुरन्धरः पुरन्दरो नाम ।
 
"
 
तेषां निवर्णन दर्शनं निष्यानं वा । "निर्वर्णनं तु निध्यानम्" इत्यमरः । तेन
जनित: उत्पादितः, योऽमर्ष: कोप: । "कोपक्रोधामर्षरोष" इत्यमरः । तस्य
जल्पाकानि, वक्तृणि। व्यक्तवाग्वाचकाज्जल्प'धातोः'जल्पभिक्षकुलुण्टवृडष्षाकन्"
(पा.सू. 3-2-155) इति षाकन्प्रत्ययः । यानि निखिलदिक्पतीनां वदनानि,
तेषां यदवलोकनं दर्शन, तेन सफलीकृतानि सहस्रं लोचनानि सहस्रसङ्ख्याकानि
नेत्राणि, यस्य स तथाभूत: । चतुर्मुखस्य ब्रह्मणो मुखवलयं मुखमण्डलं, तत्र
विहारिणी विहरणशीला। विपूर्वाद्धरतेस्ताच्छीलिके णिनिप्रत्यये नान्तलक्षण डीप्-
प्रत्ययः । विहारिणी च सा भारती चेति विग्रहे "पुंबत्कर्मधारय " इति (पा. सू.
6-3-42) पुंवद्भावे भवति विहारिभारतीति शब्दरूपं, तया त्रयीवाण्या, परिगृहीतः
वैताळिकानां मागधानामधिकारो यस्य स तथाभूतः । "वैताळिका मागधाः स्युः"
इत्यमरशेषः । पक्षपातस्य दुरभिमानस्य, असहिष्णुरक्षमता, तस्य भावस्तत्ता तयेव ।
अन्यत्र पक्षपातस्य पक्षाभ्यां गमनस्य, असहिष्णुः अतितिक्षुः । परिहृतं छिन्नं,
शैलेन्द्राणां पक्षमण्डलं येन सः । चन्द्रचूडस्य चन्द्रशेखरस्य चरणारविन्दयो-
र्यत्परिचरणं पूजा, तेन यदानन्दसाम्राज्यं तस्य धुरन्धरः । धूरेव धुरा ।
"आपञ्चैव हलन्तानाम्" इति वचनाट्टाप्प्रत्ययः । तां धारयतीति धुरन्धरः ।
"संज्ञायां भृतृवृजि" (पा. सू. 3-2-46) इत्यादिना खच्प्रत्ययः, "खचि
ह्रस्व: " (पा. सू. 6-4-94) इति ह्रस्वः, "अरुर्द्विषत्" (पा.सू. 6-3-67)
इत्यादिना मुमागमः । आनन्दसाम्राज्यस्य धुरन्धरः । धूर्व धुर्यधौ-
रेयधुरीणास्सधुरन्धराः" इत्यमरः । वोढेति यावत् । पुरन्दरो नाम प्रसिद्धो
राजा अस्तीत्यन्वयः । इन्द्रस्य दक्षिणनायकत्वं स्फुटीकर्तु तदीयानां "लज्जा-
मन्मथमध्यस्था मध्यमोदितयौवना" इत्युक्तलक्षणानां मध्यमानां क्रीडाकालिक-
"
 
· 1. "जप, जल्प - व्यक्तायां वाचि" इत्ययं धातुः भौवादिक: अनुनासिकान्तानां
प्राक् "अथ परस्मैपदिनः" इत्यारभ्याम्नातेषु एकचत्वारिंशद्धातुषु चतुर्थः धातुः ॥
 
-
 
2. "सुप्यजातौ णिनिस्तच्छील्ये" (पा. सू. 3-2-78) इत्यनेन णिनिः । 'ऋ
भ्यो कीपू" (पा. सू. 4.1-5) इत्यनेन ङीप् इति विवेकः ॥