This page has been fully proofread twice.

लोकनखमुखमुखरितविपञ्चिकानिनादप्रपञ्चितोदारनिजभुजापदानसमाकर्णनसमुद्गीर्णपुलक-
निर्वर्णनजनितामर्षजल्पाकनिखिलदिक्पालवदनाव-

 
[Commentary]
 

कर्मणि षष्ठी । रम्भा आदिर्यासां ता विविधरम्भोर्वश्च विविधस्त्रियः, तासां संसत् सङ्घः, तस्याः अहंप्रथमिका अहं प्रथमं भुज्ये अहं प्रथममितीच्छा, तया सम्भुज्यमाना अनुभूयमाना नवयौवनश्रीर्यस्य सः । पर्युषितः प्राचीनः स न भवतीत्यपर्युषितः नूतनः, यः यौवनस्योन्मेषः विकासः, तेन संभावनीया श्लाघनीया मदनमदारम्भस्य मन्मथकृतमदोपक्रमस्य सीमा मर्यादा, यस्याः सा
तथाभूतायाः, शचीदेव्याः । सदा कौमारस्य बाल्यात्परभूतवयसः, हर्ता अपहर्ता । यद्वा अपूर्वपतिं कुमारीमुपपन्नः कौमारः स चासौ हरश्चेति कर्मधारयसमासः । मनोहरापूर्वपतिरिति समुदितार्थः । "कौमारा पूर्ववचने"[^१] ( पा. सू. ४.२.१३ ) इति निपातनात्साधुः । काव्यागमः, आगम्यते ज्ञायतेऽनेन शृङ्गारादिरित्यागमः, कवेः कर्म काव्यमिति विग्रहे काव्यशब्दः कविनिर्मितपरः । तथा च
कविनिर्मितशृङ्गारादिप्रतिपादकं शास्त्रं काव्यागमः । सच भरतं भरतशास्त्रं तच्च, गान्धर्वं च, तानि काव्यागमभरतगान्धर्वाणि, तेषां यानि रहस्यानि दुर्जेयार्थजालानि, तेषां सर्वङ्कषम् । "सर्वकूलाभ्रकरीषेषु कषः" (पा.सू. ३.२.४२) इति मुमागमः । सर्वसंस्पर्शी मनीषाविशेषः बुद्धिविशेषो यस्य स तथाभूतः । निरवद्यविद्याघरीलोकः निर्दुष्टविद्याधरीजनः तस्य नखमुखैः नखाग्रैः, मुखरिता नादिता, या विपञ्चिका, तस्या निनादेन ध्वनिना, प्रपञ्चितं विस्तृतं, उदारमुत्कृष्टं, यन्निजभुजापदानं निजभुजनिर्वर्तितवृत्रवधादिरूपं कर्म । "अपदानं कर्म वृत्तं" इत्यमरः । तस्य समाकर्णनं श्रवणं, तेन समुद्गीर्णानि समुद्भूतानि, यानि पुलकानि रोमाञ्चानि,
 
[^१] "कौमारापूर्ववचने" (पा. सू. ४.२.१३) कौमारेत्यविभक्तिको निर्देशः अपूर्वपतिपरोऽयमपूर्वशब्दः, "विनापि प्रत्ययम्" -- इति पतिशब्दलोपात् । अपूर्वः उच्यते येन प्रवृत्तिनिमित्तेन तदपूर्ववचनम् । तत्र कौमारेति निपातनम् ॥ अपूर्वपतिं = कुमारीं पतिरुपपन्नः = कौमारः पतिः । यद्वा अपूर्वपतिः = कुमारी पतिमुपपन्ना = कौमारीभार्या ॥ अपूर्व इति भावप्रधानो निर्देशः । अपूर्वत्वं तु स्त्रिया एवेष्यते । पुरुषस्तु अपूर्वभार्योऽस्तु वा मा वा इत्यनाग्रहः । द्वितीयान्तात्कुमारीशब्दादुपयन्तरि प्रत्ययः । न पूर्वः पतिर्यस्या इति अपूर्वपतिः । यद्वा कुमारीशब्दात् प्रथमान्तात् स्वार्थे प्रत्ययः, "टिड्ढाणञ्" (पा.सू. ४.१.१५) इति अणन्तात् ङीप् ॥ "कौमारहरः" -- इति षष्ठीतत्पुरुषः प्रथमार्थे, विशेषणोभयपदकर्मधारयसमासः निपातनरूपे द्वितीयार्थे इति विवेकः ॥