This page has not been fully proofread.

प्रथमाश्वासः
 
लोकनख मुख मुखरित
 
विपञ्चिकानिनादप्रपञ्चितोदार निज भुजापदानसमा-
कर्णन समुद्गीर्ण पुलक निर्वर्णन जनिता मर्ष जल्पाकनिखिल दिक्पालवदनाव -
 
२१
 
"
 
कर्मणि षष्ठी । रम्भा आदिर्यासां ता विविधरम्भोर्वश्च विविधस्त्रियः, तासां संसत्
मङ्घः, तस्याः अहंप्रथमिका अहं प्रथमं भुज्ये अहं प्रथममितीच्छा, तया सम्भु-
ज्यमाना अनुभूयमाना नवयौवनश्रीर्यस्य सः । पर्युषित: प्राचीनः स न
भवतीत्यपर्युषितः नूतनः, यः यौवनस्योन्मेष: विकासः, तेन संभावनीया
लाघनीया मदनमदारम्भस्य मन्मथकृतमदोपक्रमस्य सीमा मर्यादा, यस्याः सा
तथाभूतायाः, शचीदेव्याः । सदा कौमारस्य बाल्यात्परभूतवयसः, हर्ता अपहर्ता ।
यद्वा अपूर्वपति कुमारीमुपपन्न: कौमारः स चासौ हरश्चेति कर्मधारयसमासः ।
मनोहरापूर्वपतिरिति समुदितार्थ: । "कौमारा पूर्ववचने " ' ( पा. सू. 4-2-13 )
इति निपातनात्साधुः । काव्यागमः, आगम्यते ज्ञायतेऽनेन शृङ्गारादिरित्या -
गमः, कवेः कर्म काव्यमिति विग्रहे काव्यशब्द: कविनिर्मितपरः । तथा च
कविनिर्मितशृङ्गारादिप्रतिपादकं शास्त्रं काव्यागमः । सच भरतं भरतशास्त्रं तच्च,
गान्धर्वं च, तानि काव्यागमभरतगान्धर्वाणि, तेषां यानि रहस्यानि दुर्जेयार्थजालानि,
तेषां सर्वङ्कषम् । "सर्वकूलाभ्रकरीषेषु कष: " (पा.सू. 3-2-42) इति मुभागमः ।
सर्वसंस्पर्शी मनीषाविशेषः बुद्धिविशेषो यस्य स तथाभूतः । निरवद्यविद्याघरी-
लोक: निर्दुष्टविद्याधरीजन: तस्य नखमुखैः नखायैः, मुखरिता नादिता, या
विपश्चिका, तस्या निनादेन ध्वनिना, प्रपञ्चितं विस्तृतं, उदारमुत्कृष्टं, यन्निज-
भुजापदानं निजभुजनिर्वर्तितवृत्रवधादिरूपं कर्म । "अपदानं कर्म वृत्तं " इत्यमरः ।
तस्य समाकर्णनं श्रवणं, तेन समुद्गीर्णानि समुद्भूतानि, यानि पुलकानि रोमाञ्चानि,
 
1. "6
 
"
 
'कौमारापूर्ववचने (पा. सू. 4-2-13) कौमारेत्यविभक्तिको निर्देशः
अपूर्वपतिपरोऽयमपूर्वशब्दः, "विनापि प्रत्ययम् " - इति पतिशब्दलोपात् । अपूर्वः
उच्यते येन प्रवृत्तिनिमित्तेन तदपूर्ववचनम् । तत्र कौमारेति निपातनम् ॥ अपूर्वपति
कुमारीं पतिरुपपन्नः = कौमारः पतिः । यद्वा अपूर्वपतिः = कुमारी पतिमुपपन्ना- कौमारी-
भार्या ॥ अपूर्व इति भावप्रधानो निर्देशः । अपूर्वत्वं तु स्त्रिया एवेष्यते । पुरुषस्तु
अपूर्वभार्योऽस्तु वा मा वा इत्यनाग्रहः । द्वितीयान्तात्कुमारीशब्दादुपयन्तरि प्रत्ययः । न
पूर्वः पतिर्यस्या इति अपूर्वपतिः । यद्वा कुमारीशब्दात् प्रथमान्तात् स्वार्थे प्रत्ययः,
"टिड्ढाणञ्" (पा.सू. 4-1-15) इति अणन्तात् ङीप् ॥ "कौनारहरः " – इति षष्ठीतत्पुरुषः
प्रथमार्थे, विशेषणोभयपदकर्मधारय समासः निपातनरूपे द्वितीयार्थे इति विवेकः ॥
 
"