2023-07-24 11:51:53 by Bharadwajraki
This page has been fully proofread twice.
र्वणां, राजा त्रिविष्टपस्य, राजा त्रयाणां जगतां, राजा विध्यण्डमण्डलस्य, कर्ता शताश्वमेधानां, संहर्ता वृत्रासुरस्य, रम्भादिविविधरम्भोरुसंसदहम्प्रथमिकासंभुज्यमाननवयौवनश्रीः, अपर्युषितयौवनोन्मेषसम्भावनीयमदनमदारम्भसीमायाः कौमारहरः सदा शचीदेव्याः,
काव्यागमभरतगान्धर्वरहस्यसर्वङ्कषमनीषाविशेषः, निरवद्यविद्याधरी-
[commentary]
सन्त्यन्ये बहवो नगाः ॥" इति शास्त्राद्वृक्षान्तरेषु दोहदत्वेन प्रसिद्धानपि गानालिङ्गनादीन् वासकसज्जिकासु मन्दारकृतोपकारं दृष्ट्वा स्त्रीस्वभावसुलभेन क्रोधेन यूयमस्माकं सहाया भवतेति कल्पवृक्षादिष्वेव कुर्वन्तीति भावः । नन्वमरावती नाम राजघानी चेद्राज्ञा भवितव्यं, तत्र वर्तमानो राजा किंविध इति चेदत आह ॥ अस्ति चेति ॥ तां तस्याममरावत्याम् । उपान्वध्याङ्वसः (पा. सू. १.४.४८) इति वसतेराधारस्य कर्मत्वं, "कर्मणि द्वितीया" (पा. सू. २.३.२) इति द्वितीया । अघिवसन् वर्तमानः । ऋतूनां षण्णां वसन्त इव सर्वस्पृहणीयः । फणाभृतां सर्पाणां वासुकिरिव शिवप्रियः । यद्वा समुद्रमथने वासुकिर्यथा इन्द्रोऽपि तथा । वृक्षाणां तरूणां हरिचन्दन इव श्रीगन्ध इव, स यथा तथा मङ्गळकरः । ऋक्षाणां नक्षत्राणां चन्द्रमा इव स यथा प्रथमगणनीयः, अयमपि तथेत्यर्थः । उक्ताः सर्वा अपि षष्ठ्यो [^१]निर्धारणे । इतः परं [^२]स्वस्वामिभावे । सुपर्वणां देवानां, राजा रञ्जकः आह्लादक इति यावत् । प्राणिमात्ररञ्जकत्वेऽपि अत्यन्तं साक्षादेव देवरञ्जकत्वात्तथोक्तम् । त्रिविष्टपस्य स्वर्गस्य राजा, नियमेन स्वर्ग एवावस्थानात्तथोक्तः । यथा कृत्स्नकोसलाधिपतावपि रामे
अयोध्याधिपतिरिति, तद्वत् । अतो नोत्तरेण पौनरुक्त्यम् । त्रयाणां जगतां लोकानां राजा अधिकारानुरोधात्तथोक्तः । विध्यण्डमण्डलस्य ब्रह्माण्डमण्डलस्य राजा नाथः । अयमिन्द्रः ब्रह्ममुखादागतनिखिलवेदार्थः ब्रह्मविच्च, "ब्रह्मविद्ब्रह्मैव भवती"ति श्रुत्या परब्रह्मात्मकतया परब्रह्मणो जगन्नाथत्वात्तथोक्तः । शताश्वमेधानां शतसङ्ख्याकानामश्वमेघानां कर्ता अनुष्ठाता । तत्पदप्राप्तौ तावद्यज्ञानुष्ठानस्य निमित्तत्वात्तथोक्तः । वृत्रासुरस्य संहर्ता हन्ता । उभयत्र "कर्तृकर्मणोः" इति (पा.सू. २.३.६५)
[^१] "यतश्च निर्धारणम्" ( २.३.४१ ) इति पाणिनिसूत्रेण निर्धारणे षष्ठीति भावः ॥
[^२] "षष्ठी शेषे" (पा. सू. २.३.५०) इति पाणिनिसूत्रेण स्वस्वामिभावसंबन्धे षष्ठीति भावः ॥