2023-07-07 10:25:25 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  २०
  
  
  
   
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  र्वणां, राजा त्रिविष्टपस्य, राजा त्रयाणां जगतां, राजा विध्यण्ड-
  
  
  
  मण्डलस्य, कर्ता शताश्वमेधानां, संहर्ता वृत्रासुरस्य, रम्भादिविविध-
  
  
  
  रम्भोरुसंसदहम्प्रथमिकासंभुज्यमाननवयौवनश्रीः, अपर्युषित यौवनोन्मे-
  
  
  
  बषसम्भावनी यमदन मदारम्मभसीमाया:याः कौमारहरः सदा शचीदेव्याः,
  
  
  
  
  
  
  
  काव्यागमभरत गान्धर्वरहस्य सर्वङ्कष मनीषाविशेषः, निरवद्यविद्याधरी-
  
  
  
  1
  
  
  
   
  
  
  
  ""
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [commentary]
  
  
  
   
  
  
  
  सन्त्यन्ये बहवो नगाः ॥" इति शास्त्राद्ववृक्षान्तरेषु दोहदत्वेन प्रसिद्धा-
  
  
  
  नपि गानालिङ्गलानादीन् वासकसज्जिकासु मन्दारकृतोपकारं दृष्टाट्वा स्त्रीस्व-
  
  
  
  भावसुलमेभेन क्रोधेन यूयमस्माकं सहाया भवतेति कल ल्पवृक्षादिष्वेव कुर्वन्तीति
  
  
  
   भावः । नन्वमरावती नाम राजघानी चेद्राज्ञा भवितव्यं, तत्र वर्तमानो राजा
  
  
  
   किंविध इति चेदत आह ॥ अस्ति चेति ॥ तां तस्याममरावत्या म् ।
  
  
  
   उपान्वध्याङ्वसः (पा. सू. 14-48१.४.४८) इति वसतेराधारस्य कर्मत्वं,
  
  
  
   "कर्मणि द्वितीया" (पा. सू. 2-3-2२.३.२) इति द्वितीया । अघिवसन् वर्तमानः । ऋतूनां
  
  
  
   षण्णां वसन्त इव सर्वस्पृहणीयः । फणाभृतां सर्पाणां वासुकिरिव शिवप्रियः ।
  
  
  
   यद्वा समुद्रमथने वासुकिर्यथा इन्द्रोऽपि तथा । वृक्षाणां तरूणां हरिचन्दन इव
  
  
  
   श्रीगन्ध इव, स यथा तथा मङ्गळकरः । ऋक्षाणां नक्षत्राणां चन्द्रमा इव स यथा
  
  
  
   प्रथमगणनीयः, अयमपि तथेत्यर्थः । उक्ताः सर्वा अपि षष्ठठ्यो [^१]निर्धारणे । इतः परं
  
  
  
   [^२]स्वस्वामिभावे । सुपर्वणां देवानां, राजा रञ्जकः आह्लादक इति यावत् ।
  
  
  
   प्राणिमात्ररञ्जकत्वेऽपि अत्यन्तं साक्षादेव देवरञ्जकत्वात्तथोत्क्तम् । त्रिविष्टपस्य स्वर्ग-
  
  
  
  स्य राजा, नियमेन स्वर्ग एवावस्थानात्तथोक्तः । यथा कृत्स्नकोसलाधिपतावपि रामे
  
  
  
  
  
  
  
  अयोध्याधिपतिरिति, तद्वत् । अतो नोत्तरेण पौनरुत्तक्त्यम् । त्रयाणां जगतां लोकानां
  
  
  
   राजा अधिकारानुरोधात्तथोक्तः । विध्यण्डमण्डलस्य ब्रह्माण्डमण्डलस्य राजा नाथः ।
  
  
  
   अयमिन्द्रः ब्रह्ममुखादागतनिखिलवेदार्थः ब्रह्मविच्च, "ब्रह्मविद्ब्रह्मैव भवती"ति श्रुत्या
  
  
  
   परब्रह्मात्मकतया परब्रह्मणो जगन्नाथत्वात्तथोक्तः । शताश्वमेवाधानां शतसङ्ख्याकाना-
  
  
  
  मश्वमेघानां कर्ता अनुष्ठाता । तत्पदप्राप्तौ तावद्यज्ञानुष्ठानस्य निमित्तत्वात्त-
  
  
  
  थोक्तः । वृत्रासुरस्य संहर्ता हन्ता । उभयत्र "कर्तृकर्मणो: णोः" इति (पा.सू. 2-365२.३.६५)
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१]  " यतवयतश्च निर्धारणम्" ( 2-3-41२.३.४१ ) इति पाणिनिसूत्रेण निर्धारणे षष्ठीति भावः ॥
  
  
  
  2.
  
  
  
  [^२]  " षष्ठी शेषे " (पा. सू. 2-3-50 २.३.५०) इति पाणिनिसूत्रेण स्वस्वामिभावसंबन्धे
  
  
  
  बी षष्ठीति भावः ॥