This page has not been fully proofread.

२०
 
नीलकण्ठविजये सव्याख्याने
 
र्वणां, राजा त्रिविष्टपस्य, राजा त्रयाणां जगतां, राजा विध्यण्ड-
मण्डलस्य, कर्ता शताश्वमेधानां, संहर्ता वृत्रासुरस्य, रम्भादिविविध-
रम्भोरुसंसदहम्प्रथमिकासंभुज्यमाननवयौवनश्रीः, अपर्युषित यौवनोन्मे-
बसम्भावनी यमदन मदारम्मसीमाया: कौमारहरः सदा शचीदेव्याः,
काव्यागमभरत गान्धर्वरहस्य सर्वङ्कष मनीषाविशेषः, निरवद्यविद्याधरी-
1
 
""
 
सन्त्यन्ये बहवो नगाः ॥" इति शास्त्राद्वक्षान्तरेषु दोहदत्वेन प्रसिद्धा-
नपि गानालिङ्गलादीन् वासकसज्जिकासु मन्दारकृतोपकारं दृष्टा स्त्रीस्व-
भावसुलमेन क्रोधेन यूयमस्माकं सहाया भवतेति कल वृक्षादिष्वेव कुर्वन्तीति
भावः । नन्वमरावती नाम राजघानी चेद्राज्ञा भवितव्यं, तत्र वर्तमानो राजा
किंविध इति चेदत आह ॥ अस्ति चेति ॥ तां तस्याममरावत्या म् ।
उपान्वध्याङ्वसः (पा. सू. 14-48) इति वसतेराधारस्य कर्मत्वं,
"कर्मणि द्वितीया" (पा. सू. 2-3-2) इति द्वितीया । अघिवसन् वर्तमानः । ऋतूनां
षण्णां वसन्त इव सर्वस्पृहणीयः । फणाभृतां सर्पाणां वासुकिरिव शिवप्रियः ।
यद्वा समुद्रमथने वासुकिर्यथा इन्द्रोऽपि तथा । वृक्षाणां तरूणां हरिचन्दन इव
श्रीगन्ध इव, स यथा तथा मङ्गळकरः । ऋक्षाणां नक्षत्राणां चन्द्रमा इव स यथा
प्रथमगणनीयः, अयमपि तथेत्यर्थः । उक्ताः सर्वा अपि षष्ठयो निर्धारणे । इतः परं
स्वस्वामिभावे । सुपर्वणां देवानां, राजा रञ्जकः आह्लादक इति यावत् ।
प्राणिमात्ररञ्जकत्वेऽपि अत्यन्तं साक्षादेव देवरञ्जकत्वात्तथोत्तम् । त्रिविष्टपस्य स्वर्ग-
स्य राजा, नियमेन स्वर्ग एवावस्थानातथोक्तः । यथा कृत्स्नकोसलाधिपतावपि रामे
अयोध्याधिपतिरिति, तद्वत् । अतो नोत्तरेण पौनरुत्तयम् । त्रयाणां जगतां लोकानां
राजा अधिकारानुरोधात्तथोक्तः । विध्यण्डमण्डलस्य ब्रह्माण्डमण्डलस्य राजा नाथः ।
अयमिन्द्रः ब्रह्ममुखादागतनिखिलवेदार्थः ब्रह्मविच्च, "ब्रह्मविद्ब्रह्मैव भवती"ति श्रुत्या
परब्रह्मात्मकतया परब्रह्मणो जगन्नाथत्वात्तथोक्तः । शताश्वमेवानां शतसङ्ख्याकाना-
मश्वमेघानां कर्ता अनुष्ठाता । तत्पदप्राप्तौ तावद्यज्ञानुष्ठानस्य निमित्तत्वात्त-
थोक्तः । वृत्रासुरस्य संहर्ता हन्ता । उभयत्र "कर्तृकर्मणो: " इति (पा.सू. 2-365)
 
1. " यतव निर्धारणम्" ( 2-3-41) इति पाणिनिसूत्रेण निर्धारणे षष्ठीति भावः ॥
2. " षष्ठी शेषे " (पा. सू. 2-3-50 ) इति पाणिनिसूत्रेण स्वस्वामिभावसंबन्धे
बीति भावः ॥