This page has been fully proofread twice.

गायन्ति चाटु कथयन्ति पदा स्पृशन्ति
पश्यन्ति गाढमपि तत्र परिष्वजन्ते ।
कल्पद्रुमानपि समेत्य सुपर्वकान्ता
मुग्धा द्रुमैस्तदितरैश्चिरविप्रलब्धाः ॥ १७॥
 
अस्ति च तामधिवसन्, वसन्त इवर्तूनां, वासुकिरिव फणाभृतां, चन्दन इव वृक्षाणां, चन्द्रमा इवर्क्षणां, राजा सुप-
 
[commentary]
 
मुहुर्मुहुः । केळीगृहं तथात्मानं या स्याद्वासकसज्जिका ॥" इत्युक्तलक्षणानाम् । वेणिवलयेषु कचबन्धनवलयेषु । "वेणी तु कचबन्धनं" इत्यमरः । गळन्ति स्खलन्ति । पुष्पाणि, सायं सहायकर्म, वहन्ति निर्वर्तयन्ति । क्लेशमन्तरैव अमर्यः क्रीडोपकरणानि प्राप्नुवन्तीति भावः । वासकसज्जिकावृत्तान्तेन स्मृतानां विप्रलब्धानायिकानां वृत्तान्तमाह ॥ गायन्तीति ॥ तत्र अमरावत्याम् । मुग्धाः नायिकाविशेषाः । तदुक्तं -- "उदयद्यौवना मुग्धा" इति । चिरं विप्रलब्धा वञ्चिताः चिरविप्रलब्धाः । एता अपि नायिकाविशेषाः । तथोक्तं - "क्वचित्सङ्केतमावेद्य दयितेनाथ वञ्चिता । स्मरार्ता विप्रलब्धेति कलाविद्भिः प्रकीर्तिता ॥" इति । कल्पद्रुमानपीत्यत्र अपिशब्दो भिन्नक्रमः । तथाचोक्तोभयविधाः सुपर्वकान्ता अपि देवसुन्दर्योऽपि । तदितरैः तस्मात्पूर्वश्लोकोक्तवासकसज्जिकासहकारिभूतात् मन्दारादितरे ये सन्तानादयः तैस्त्रिभिः द्रुमैः, "मन्दारैः पारिजातैश्च कल्पवृक्षैश्च भूषितम्" इत्यादिवचनात्कल्पवृक्षजातीयानां बहुत्वम् । सहितान् कल्पवृक्षान् समेत्य उपगम्य । "पञ्चैते देवतरवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि
वा हरिचन्दनम् ॥" इत्यमरः । गायन्ति गानं कुर्वन्ति । "गै शब्द" इति [^१]धातोर्लट् । चाटु चाटूक्तीः, कथयन्ति । पदा पादेन । स्पृशन्ति स्पर्शनं कुर्वन्ति । पश्यन्ति दर्शनं कुर्वन्ति । गाढं दृढम् । "गाडबाढदृढानि च " इत्यमरः । परिष्वजन्ते श्लिष्यन्ति । "परिनिविभ्यः" (पा.सू. ८.३.७०) इति षत्वम् । "गानात्संभाषणाच्चापि संस्पर्शात्पादजात् स्त्रियाः । दर्शनालिङ्गनाभ्यां तु पुष्यन्ति च फलन्ति
च ॥ क्रमात्पुन्नागवकुळाशोकाः कुरवकस्तथा । शिशुपा चेति विख्याताः
 
[^१] "अथाजन्ताः परस्मैपदिनः" - इत्यारभ्य भ्वादौ पठितेषु पंचचत्वारिंशद्धातुषु, अयं षोडशो धातुः "कै गै शब्दे" इति ॥