This page has been fully proofread twice.

दृष्ट्वा व्योम निरास्पदं सचकितव्याघूर्णमानेक्षणा
न स्थातुं न च वा ततोऽक्तरितुं प्रागल्भ्यमाबिभ्रते ॥ १५ ॥
 
मन्दानिलव्यतिकरच्युतपल्लवेषु
मन्दारमूललवलीगृ[^a]हमण्डपेषु ।
पुष्पाणि वेणिवलयेषु गलन्ति तस्यां
साह्यं वहन्ति सुरवासकसज्जिकानाम् ॥ १६ ॥
 
[commentary]
 
यस्य तत्तथाभूते विमाने, स्थिताः वर्तमानाः, सुकृतिनः पुण्यवन्तः । "सुकृती पुण्यवान् धन्यः" इत्यमरः । निरास्पदं निरधिष्ठानं व्योम दृष्ट्वा । सचकितव्याघूर्णमानेक्षणाः, चकितानि भीतानि, अत एव व्याघूर्णमानानि भ्रमणस्वभावानि, यानीक्षणानि, तैस्सह वर्तन्त इति तथाभूताः सन्तः, स्थातुं विमाने स्थितिं कर्तुं, प्रागल्भ्यं नैपुण्यं, नाबिभ्रते न दते । ततो विमानादवतरितुमवरोढुं च वा प्रागल्भ्यं प्रौढत्वं, नाबिभ्रते न दधत इत्यर्थः । सत्कर्मानुष्ठानजन्यापूर्वं तु यावत्फलानुभवभावित्वेन कर्मणि कृते सति विमुक्तेषु यावत्फलमन्तरा दुर्निरोधमिति भावः । सात्त्विकराजसतामसभेदेन त्रिधा विभज्य सात्त्विकसुखस्वरूपमुक्तं भगवता । "यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥'' (भ.गी. १८-३७) इति । अतः स्वर्गसुखस्य पूर्वमीमांसार्थकाण्डसाध्यनैर्मल्यवद्देवमाहात्म्यबुद्धिपूर्वकसत्कर्मायत्तत्वेन सात्त्विकत्वात् सुखप्राप्तेः पूर्वं विमानवर्तिनामपि किञ्चिद्भयकम्पादिकं भवेदिति हृदयम् । स्वर्वासिनीनां वासकसज्जिकानां प्रयत्नं विनापि मण्डनादिकं सिध्यतीत्याह ॥ मन्देति ॥ यस्यां मन्दानिलः मन्दपवनः, तस्य व्यतिकरः सम्बन्धः, तेन च्युताः स्खलिताः पल्लवाः येषा तेषु । "पल्लवोऽस्त्री किसलयम्" इत्यमरः । मन्दारस्य कल्पकवृक्षविशेषस्य, मूले मूलतले या लवलीलता तत्पिहितेषु मण्डपेषु जनाश्रयभूमिषु । "मडि[^१] भूषायाम्" इति धातोर्भावे घञ् । मण्डं मण्डनं पिबन्ति पान्तीति वा तेष्वित्यर्थः । "मण्डपोऽस्त्री
जनाश्रयः" इत्यमरः । स्थितानां वासकसज्जिकानाम् । "प्रियागमनवेळायां मण्डयन्ती
 
[^a]. गृहपदं न व्याख्यातं व्याख्यात्रा ।

[^१] अयं धातुः भ्वादौ "आटवर्गीयान्तसमाप्तेः परस्मैपदिनः" इत्यारभ्य पठितेषु सप्ताशीतिधातुषु षट्त्रिंशत्तमः ॥ "वडि विभाजने, मडि च" -- इत्यन्यः भ्वादौ, "मडि -- भूषायां हर्षे च" इति चुरादौ चान्यः पठितः ॥